________________
त्रिषष्टि
शलाका
पुरुषचरिते
11989 11
एवं वसन्तदेवस्तां नियतिं रूपिणीमिव । आलप्य च सत्कृत्य च व्यसृजत् कृत्यकोविदः ।। ४३० ।। इत्थं प्रत्यहमन्योऽन्योदन्तपीयूषपायिनोः । कियानप्यगमत् कालस्तयोर्वर्षशतोपमः ।। ४३१ ।। वसन्तदेवेनान्येद्युः स्वगृहे तस्थुषा सता । मङ्गल्यतूर्यमश्रावि सदने पञ्चनन्दिनः ।। ४३२ ।। सुदत्तश्रेष्ठिपुत्राय कन्यकुब्जनिवासिने । प्रदत्ता वरदत्ताय केसरा पञ्चनन्दिना ।। ४३३ ।। वर्धापनकृते तेन तूर्यमेतद्धि वाद्यते । इति प्रवृत्तिं स प्राप प्रेषितैः पूरुषैर्निजैः ॥ ४३४ ॥
॥ युग्मम् ॥
एवमाकर्ण्य सोऽमूर्छन्मुद्गरेणेव ताडितः । एवमाश्वासयांचक्रे द्राक् प्रियङ्करया ततः ।। ४३५ ।। त्वां केसरा संदिशति खेदः कार्यस्त्वया न हि । गुरूपक्रान्तमाकर्ण्य विवाहामि मम प्रियम् ।। ४३६ ।। गुरवो मदभिप्रायानभिज्ञाः किञ्चिदीदृशम् । विधित्सन्ति विधित्सन्तु न विधास्याम्यहं त्विदम् ॥ ४३७ ॥ त्वमेव भर्ता भावी मे भावि वा मरणं ध्रुवम् । बोद्धव्यं नान्यथा नाथ न हि मिथ्या कुलीनवाक् ।। ४३८ ।। प्रीतो वसन्तोऽपीत्यूचे तादृशं स्वप्नदर्शनम् । प्रतिज्ञा च कुलीनानां न मुधा जातु जायते।। ४३९ ।। प्रतिज्ञास्माकमप्येषा केसरामुद्वहामि वा । येन केनाप्युपायेन यामि वा यममन्दिरम् ॥ ४४० ॥ एवमुक्ता विसृष्टासा प्रययावुपकेसरम् । तदुक्तदयितोदन्तान्मुमुदे केसराप्यथ ।। ४४१ ।। तयोरन्योऽन्यसम्बन्धोपायचिन्ताजुषोर्ययौ । कालः कियानप्यसुखं रजनीव रथाङ्गयोः ४४२ ।। अर्थस्तयोरसम्पन्न एवोपायकृतोरपि । जन्ययात्राययौ प्रातः केसरोद्वाहहेतवे ।। ४४३ ।। १ दैवम् । २ गुरुणा पित्रादिनोपक्रान्तमारब्धम् । ३ विधातुं कर्तुमिच्छन्ति । ४ चक्रवाकयोः ।
पञ्चमं पर्व
पञ्चमः
सर्गः श्री शान्तिनाथजिन
चरितम् ।
राजवृत्तान्त
कथनम् ।
।। १४१ ।।