________________
त्रिषष्टिशलाकापुरुषचरिते ||१४०॥
पञ्चमं पर्व पञ्चमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
केसरा युगपदपि व्रीडाभीहर्षधारिणी । ऊचे त्वमेव जानासि कुरुष्वास्य यथोचितम् ।। ४१६ ॥ प्रियङ्कराप्यङ्गणस्थप्रियङ्गुत्तरुमञ्जरीम् । कक्कोलादीनि चादाय वसन्तमिदमब्रवीत् ॥४१७ ।। स्वामिनी मे स्वहस्तायोच्चितान्येतानि सुन्दर । इष्टदेयानि ते दत्ते पुष्पाणि च फलानि च ॥ ४१८ ॥ अभीष्टोऽस्म्यहमेतस्या इति हृष्टः स्वपाणिना । वसन्तदेवो जग्राह पुष्पाणि च फलानि च ।। ४१९ ।। नाममुद्रां स दत्वौच्चैस्त्वयेदं शोभनं कृतम् । वर्तितव्यं सदापीष्टानुरूपमिति तां ददे ।। ४२० ॥ गत्वा च तद्वचोऽशंसत् केसरायै प्रियङ्करा । दृढानुरागकन्दस्योद्भेदने वारिसेकवत् ।। ४२१ ।। पश्चिमे यामिनीयामे सुप्ता स्वप्नेऽथ केसरा । वसन्तदेवेनात्मानमुह्यमानमुदैक्षत ।। ४२२ ।। तदा वसन्तदेवोऽपि स्वप्ने परिणिनाय ताम् । स्वप्नदर्शनमप्यासीद्विवाहादधिकं तयोः ।। ४२३ ।। प्रियङ्करायै तं स्वप्नं कथयामास केसरा । सद्यो रोमाञ्चितवपुः प्रेतीयन्ती तमेव हि ॥ ४२४ ।। भविष्यत्येवमेवेदमिति स्वार्थप्रसाधकम् । पुरोधसा निजगदे तदानेतिदवीयसा ।। ४२५ ।। वसन्तदेवस्ते भर्ता स्वप्नेन शकुनेन च । बध्यतां शकुनग्रन्थिरित्यूचे तां प्रियङ्करा ।। ४२६ ।। गत्वा वसन्तदेवस्याप्याख्यत् स्वप्नं प्रियङ्करा । सोऽपि स्वस्वप्नसंवादात् सिद्धमर्थममन्यत ।। ४२७ ॥ प्रियङ्करोचे स्वामिन्या तुभ्यमात्मा प्रकल्पितः । कल्प्यतां निर्विकल्पं तत्सर्वं वैवाहिकं त्वया ।। ४२८ ॥ वसन्तदेवोऽप्यवदव्यधायि विधिनैव तत् । प्रायो मनुष्यघटितं कार्य विघटते क्वचित् ।। ४२९ ।। १ प्रतीतिं कुर्वन्ति । २ समीपस्थेनेत्यर्थः । ३ परं दैवघटितं कार्य कदापि न विघटत इति तात्पर्यम् ।
राजवृत्तान्तकथनम् ।
।। १४० ॥