________________
पञ्चमं पर्व
पञ्चमः
त्रिषष्टिशलाकापुरुषचरिते १३९॥
सर्गः श्रीशान्तिनाथजिनचरितम् ।
मदिराकेसरानाम्न्यौ वणिक्पुत्र्यौ बभूवतुः । एका शङ्खपुरेऽन्या तु जयन्त्यां तावुभावपि ॥४०१ ॥ क्रमेण वर्धमानास्ते समतिक्रम्य शैशवम् । नव्यमासादयामासुश्चत्वारोऽपि हि यौवनम् ।। ४०२ ।। वसन्तदेवः काम्पील्याद्व्यवहारेण सोऽन्यदा । जयन्त्यां प्रययौ पुर्यामर्थं च समुपार्जयत् ।। ४०३ ।। अन्यदा सोऽष्टमीचन्द्रोत्सवेऽगच्छद्यदृच्छया । रतिनन्दनमुद्यानं तत्राद्राक्षीच्च केसराम् ।। ४०४ ।। तया वसन्तदेवोऽपि ददृशे स्निग्धया दृशा । तयोः प्राग्जन्मभूः स्नेहः प्रादुरासीत्परस्परम् ॥ ४०५ ॥ जयन्तीवासिनं तत्र वणिक्पुत्रं प्रियङ्करम् । वसन्तदेवः पप्रच्छ केयं कस्य सुतापि वा ।। ४०६ ॥ सोऽप्याख्यदेषा दुहिता श्रेष्ठिनः पञ्चनन्दिनः । स्वसा जयन्तिदेवस्य केसरा नाम कन्यका ।। ४०७ ।। वसन्तदेवो जयन्तिदेवेन सह सौहृदम् । समारेभे मिथो वेश्मगतागतनिबन्धनम् ।। ४०८ ।। वसन्तदेवो जयन्तिदेवेन स्वगृहेऽन्यदा ।न्यमन्त्रि तत्प्रकारो हि मैत्र्यद्रोरेष दोहदः ।। ४०९ ।। अर्चन्तीं केसरां तत्र कुसुमैः कुसुमायुधम् । वसन्तदेवः प्रैक्षिष्ट नेत्रकैरवकौमुदीम् ॥ ४१० ।। जयन्तिदेवहस्ताब्जात् प्रतीच्छन् कुसुमस्रजम् । तया वसन्तदेवोऽपि ददृशे सानुरागया ॥४११ ॥ अदोऽनुकूलं शकुनमिति हर्षोऽत्यभूत्तयोः । अन्योऽन्यशुभचेष्टा हि शुभोदेर्का द्वयोरपि ।। ४१२ ॥ द्वयोश्चालक्षयद्भावं धात्रीपुत्री प्रियङ्करा । सुलक्ष्यं हि परस्वान्तमिलित्ताकारवेदिभिः ।। ४१३ ।। वसन्त इव वसन्तसखस्य सुहृदोऽकरोत् । पूजा वसन्तदेवस्य केसरासोदरोऽथ सः ।। ४१४ ॥ ऊचे प्रियङ्करा तां च केसरे तव सोदरः । करोत्यर्चामसावस्य त्वमप्युचितकृद्भव ॥ ४१५ ॥ १ गृह्णन् । २ शुभपरिणामा । ३ कामदेवस्य ।
राजवृत्तान्तकयनम् ।
ROGANGACASSACROSSAX
॥१३९ ।।