________________
त्रिषष्टि
शलाका
पुरुषचरिते
||१३८ ।।
अभीष्टेभ्यः प्रदास्येऽहमिति चिन्तापि ते ततः । पूर्वकर्मानुसारेण जायते जन्मिनां हि धीः ॥ ३८६ ॥ अस्यैव जम्बूद्वीपस्य क्षेत्रे चात्रैव भारते । कोसलाख्ये जनपदे नगरे श्रीपुरेऽभवत् ।। ३८७ ।। सुनो धनपतिश्च धनदश्च धनेश्वरः । वणिक्पुत्राः सवयसश्चत्वारः सोदरा इव ॥ ३८८ ॥ अन्यदार्थोपार्जनार्थं ते चत्वारोऽपि संहताः । रत्नद्वीपं प्रत्यचलन् द्रोणकोदूढशम्बलाः ।। ३८९ ॥ महाटवीं प्राविशंस्ते तीर्णप्राया कृता च सा । क्षीणप्रायं च पाथेयं तेषामजनि बह्वपि ।। ३९० ॥ तदा चैकं ददृशुस्ते मुनिं प्रतिमया स्थितम् । अस्मै किञ्चित् प्रयच्छाम इति चाचिन्तयन् क्षणम् ॥ ३९१ ।। तं च द्रोणकनामानमूचुः शम्बलवाहिनम् । भद्र किञ्चिदप्यस्मै द्रोण देहि महर्षये ।। ३९२ ॥
धश्रद्धा स तं मुनिं प्रत्यलाभयत् । महाभोगफलं कर्म तेन निर्वर्तितं तदा ।। ३९३ ।। रत्नद्वीपं च तेऽपीयुर्व्यवहारं च चक्रिरे । उपार्ज्यार्थं समाजग्मुर्भूयोऽपि नगरं निजम् ।। ३९४ ॥ तेनैव पुण्यबीजेन ननन्दुः सर्वदापि ते । जीवन्त्यप्येकदाप्तेन धान्यानि स्वातिवारिणा ।। ३९५ ।। धनेश्वरधनपती किं तु मायापरौ मनाक् । अधिकं शुद्धवृत्तिस्तु तेषु च द्रोणकोऽभवत् ।। ३९६ ।। आयुः क्षये च प्रथमं विपद्य द्रोणकः स तु । दानप्रभावात् पुत्रोऽभूस्त्वं हास्तिनपुरेशितुः ।। ३९७ ।। जनन्या च मुखे विशच्चन्द्रस्वप्नावलोकनात् । पितृभ्यां नामधेयं ते कुरुचन्द्र इतीरितम् ॥ ३९८ ॥ सुनो धनदश्वोभौ मृत्वाभूतां वणिक्सुतौ । काम्पील्यनगरे पूर्वो द्वितीयः कृत्तिकापुरे ।। ३९९ । वसन्तसेनो नामाद्यः कामपालोऽपरः पुनः । विपेदाते धनपतिः कालात् स च धनेश्वरः ॥ ४०० ॥ १ द्रोणकेन उदूढं पाथेयं येषां ते । २ बद्धम् ।
पञ्चमं पर्व
पञ्चमः
सर्गः श्री शान्ति
नाथ जिनचरितम् ।
राजवृत्तान्त
कथनम्
।। १३८ ।।