________________
ॐ
त्रिषष्टिशलाकापुरुषचरिते ॥१३७॥
पञ्चमं पर्व पञ्चमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
स्वाम्यमिपीठाध्यासीनः सङ्घ तत्रैव तस्थुषि । विदधे देशनां चक्रायुधो गणधराग्रणीः ।। ३७१ ।। पूर्णद्वितीयपौरुष्यां व्यसृजत् सोऽपि देशनाम् । नत्वाथ स्वामिनं जग्मुः स्वं स्वं स्थानं सुरादयः ।।३७२ ।। तत्तीर्थजन्मा गरुडयक्षो गजरथोऽसितः । क्रोडास्यो बीजपूराब्जभृद्दक्षिणकरद्वयः ॥३७३ ॥ वामौ दधानो नकुलाक्षसूत्रसहितौ करौ । श्रीशान्तिस्वामिपादानां जज्ञे शासनदेवता ।। ३७४ ।। तत्तीर्थजन्मा निर्वाणी गौराङ्गी कमलासना । पुस्तकोत्पलसंयुक्तौ बिभृती दक्षिणौ करौ ।। ३७५ ॥ सकमण्डलुकमलौ वामौ च दधती करौ । अजायत जगद्भस्तिथा शासनदेवता ।। ३७६ ।। अमुक्तसनिधिस्ताभ्यां भगवानन्यतत्परः । बोधाय भव्यभविनां विजहार वसुन्धराम् ।।३७७ ।। विहरन्नन्यदा तत्र नगरे हस्तिनापुरे । उपेत्य समवासार्षीद्भगवान् करुणानिधिः ।। ३७८ ।। पौरजानपदोपेतः स्वामिनं तत्पुरेश्वरः । उपतस्थे कुरुचन्द्रश्चन्द्रोऽर्कमिव पैर्वणि ।। ३७९ ।। यथास्थानं स्थिते चाथ श्रीमत्सद्दे चतुर्विधे । संसारवैराग्यकरी विदधे देशनां प्रभुः ।। ३८० ॥ देशनान्ते विभुं नत्वा कुरुचन्द्रोऽब्रवीदिदम् । प्राग्जन्मकर्मणा केन स्वामिन् राज्यमिहासदम् ।। ३८१ ।। ढौकने मम ढौकन्तेऽद्भुतानि प्रतिवासरम् । पञ्चवस्तुफलादिनी केन प्राग्जन्मकर्मणा ।। ३८२ ॥ इष्टेभ्यस्तानि दास्यामीत्युपभुञ्ज न हि स्वयम् । न चान्यस्मै प्रयच्छामि भगवन् केन कर्मणा ।। ३८३ ॥ प्रभुरप्याख्यदेतद्धि साधवे दानतस्तव । राज्यश्रीरन्वहं चेदं ढौकनं पञ्चवस्तुनः ।। ३८४ ॥ अदानाभोग्यते चैषां पुण्यसाधारणत्वतः । वस्त्वधीनं बहनां हि न खल्वेकेन भुज्यते ।।३८५ ॥ १ कृष्णवर्णः । २ वराहमुखः । ३ बीजपूरं भाषायां 'बीजोरु इति प्रसिद्धं । ४ अमावास्यायाम् । अदानत्वमभोग्यतां च ।
विहरणम् ।
॥ १३७॥