________________
त्रिषष्टिशलाकापुरुषचरिते ||१३६॥
पञ्चमं पर्व पञ्चमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
कोऽपि नास्तीह विषयो मनोज्ञ इतरोऽपि वा । य इन्द्रियैर्नोपभुक्तस्तत्स्वास्थ्यं किं न सेव्यते ॥३५६ ॥ शुभा अप्यशुभायन्ते शुभायन्तेऽशुभा अपि । विषयास्तत्व रज्येत विरज्येत क्व चेन्द्रियैः ।। ३५७ ॥ स एव रुच्यो द्वेष्यो वा विषयो यदि हेतुतः । शुभाशुभत्वं भावानां तन्न तत्त्वेन जातुचित् ॥३५८ ॥ जितेन्द्रियो मनःशुद्ध्या ततः क्षीणकषायकः । अचिरान्मोक्षमाप्नोति जन्तुरक्षीणशर्मकम् ।। ३५९ ॥ आकर्ण्य कर्णपीयूषवृष्टिमेवं च देशनाम् । चक्रायुधः संसंवेगो भगवन्तं व्यजिज्ञपत् ।। ३६० ॥ स्वामिन् भीतोऽस्मि संसारादस्मात् क्लेशैकवेश्मनः । न पौरुषाभिमानोऽत्र दोष्मतोऽपि विवेकिनः ।।३६१ ॥ दीप्यमाने यथा गेहे पोते स्फुटति वा यथा । तन्नेता किञ्चिदादाय सारवस्त्वन्यतो व्रजेत् ।। ३६२ ।। तथा भवे जन्मजरामरणादिकरालिते । एकमात्मानमादाय त्वां शरण्यं श्रितोऽस्म्यहम् ।। ३६३ ।। स्वामिन् मा मामुपेक्षस्व निपतन्तं भवार्णवे । तस्योत्तरणनावं मे दीक्षामद्यैव देहि तत् ।।३६४ ।। युक्तं विवेकिनस्तेऽद इत्युक्तः स्वामिना ततः । तनये कवचहरे राज्यं चक्रायुधो न्यधात् ।। ३६५ ॥ सहितो राजभिः पञ्चत्रिंशता स्वामिनोऽन्तिके । स्वामिसूनुरुपादत्त प्रव्रज्यां सबसाक्षिकम् ॥३६६ ॥ चक्रायुधादिगणभृत्षट्त्रिंशत उपादिशत् । उत्पादविगमध्रौव्यलक्षणां त्रिपदी प्रभुः ॥ ३६७ ॥ तत्रिपद्यनुसारात्ते द्वादशाङ्गीमसूत्रयन् । अनुयोगगणानुज्ञे स्वामी तेषामदत्त च ॥३६८ ।। नरा नार्यश्च भूयांसः स्वाम्यन्ते प्राव्रजस्तदा । जगृहुः श्रावकत्वं च केचित्सम्यक्त्वपूर्वकम् ॥३६९ ॥ पूर्णायामादिपौरुष्यामुत्थाय परमेश्वरः । देवच्छन्दे विशश्राम मध्यप्राकारमण्डने ॥ ३७० ।। १ वैराग्यसहितः । २ नावि त्रुटन्त्यां सत्यां । ३ अनुयोगानुज्ञां गणानुज्ञां च ।
चक्रायुधदीक्षा।
॥१३६ ॥