________________
त्रिषष्टिशलाकापुरुषचरिते ॥१३५॥
पञ्चमं पर्व पञ्चमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
निपतन्मत्तमातङ्गकपोले गन्धलोलुपः । कर्णतालतलाघातान्मृत्युमाप्नोति षट्पदः ॥ ३४१ ॥ कनकच्छेदसङ्काशशिखालोकविमोहितः । रभसेन पतन् दीपे शलभो लभते मृतिम् ॥३४२ ।। हरिणो हारिणीं गीतिमाकर्णयितुमुद्धरः । आकर्णाकृष्टचापस्य याति व्याधस्य वेध्यताम् ।। ३४३ ॥ एवं विषय एवैकः पञ्चत्वाय निषेवितः । कथं हि युगपत् पञ्च पञ्चत्वाय भवन्ति न ॥ ३४४ ।। तदिन्द्रियजयं कुर्यान्मनःशुद्ध्या महामतिः । यां विना यमनियमैः कायक्लेशो वृथा नृणाम् ॥ ३४५ ॥ अनिर्जतेन्द्रियग्रामो यतो दुःखैः प्रबाध्यते । तस्माज्जयेन्द्रियाणि सर्वदुःखविमुक्तये ॥३४६ ॥ न चेन्द्रियाणां विजयः सर्वथैवाप्रवर्तनम् । रागद्वेषविमुक्तानां प्रवृत्तिरपि तज्जयः ॥ ३४७ ॥ अशक्यो विषयो स्पष्टुमिन्द्रियैः स्वसमीपगः । रागद्वेषौ पुनस्तत्र मतिमान् परिवर्जयेत् ॥३४८ ॥ हताहतानीन्द्रियाणि सदासंयमयोगिनाम् । अहतानि हितार्थेषु हतान्यहितवस्तुषु ।। ३४९ ।। जितान्यक्षाणि मोक्षाय संसारायाजितानि तु । तदेतदन्तरं ज्ञात्वा यधुक्तं तत्समाचरेत् ।।३५० ॥ स्पर्श मृदौ च तूलादेरुपलादेश्च कर्कशे । भवेद्रत्यरती हित्वा जेता स्पर्शनमिन्द्रियम् ॥३५१ ॥ रसे स्वादे च भक्ष्यादेरितरस्मिन्नथापि वा । प्रीत्यप्रीती विमुच्योच्चैर्जिह्वेन्द्रियजयी भवेत् ॥३५२ ।। घ्राणदेशमनुप्राप्ते शुभे गन्धे परत्र वा । ज्ञात्वा वस्तुपरीणामं जेतव्यं घ्राणमिन्द्रियम् ॥३५३ ॥ मनोज्ञं रूपमालोक्य यदि वा तद्विलक्षणम् । त्यजन् हर्ष जुगुप्सां च निर्जयेच्चक्षुरिन्द्रियम् ॥३५४ ॥ स्वरे श्रव्ये च वीणादेः खरोष्ट्रादेश्च दुःश्रवे । रति जुगुप्सां च जयन् श्रोत्रेन्द्रियजयी भवेत् ॥ ३५५ ॥ १ मनोहराम् । २ मृत्यवे । ३ सदासयमधारिणां योगिनाम् ।
देशना ।
॥१३५ ।।