________________
त्रिषष्टिशलाकापुरुषचरिते १३२॥
| पञ्चमं पर्व पञ्चमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
भुवं स्वर्णशिलाभिस्तां बबन्धुः सन्धिबन्धुरम् । तोरणानि च रम्याणि चक्रुः पूर्वादिदिक्षु ते ॥२९७ ॥ मध्ये कृत्वा मणीपीठं चतुर्गापुरसुन्दरान् । प्राकारांस्त्रीन् क्रमाद्रूप्यस्वर्णरत्नैर्विचक्रिरे ॥२९८ ॥ तत्रोपरितने रत्नवप्रे मध्यावनौ व्यधुः । तेऽशीत्यग्रचतुर्धन्वशतोच्चं चैत्यपादपम् ॥२९९ ॥ तस्याधश्छन्दकं चक्रुरप्रतिच्छन्दकं सुराः । छन्दकान्तः पूर्वदिशि रत्नसिंहासनं च ते ।।३०० ।। चतुस्त्रिशदतिशयोजिष्णुर्भगवानपि । पूर्वद्वारेण समवसरणं प्रविवेश तत् ॥३०१ ॥ तत्र प्रदक्षिणीकृत्य चैत्यवृक्षं जगद्गुरुः । तीर्थाय नम इत्यूचे जिनेन्द्राणां स्थिति सौ ॥३०२ ॥ पूर्वसिंहासने तत्र प्राङ्मुखो न्यषदत्प्रभुः । दिक्ष्वन्यासु विचक्रुश्च तद्रूपत्रितयं सुराः ॥३०३ ॥ यथाद्वारं प्रविश्याथ सुरासुरनृणां गणः । अवतस्थे यथास्थानं स्वाम्यास्यमवलोकयन् ।।३०४ ॥ विरोधिनोऽपि तिर्यञ्चो मध्यवप्रेऽवतस्थिरे । प्राकारेऽधस्तने तस्थुर्वाहनान्यखिलान्यपि ॥३०५ ॥ तदा चक्रायुधनृपं हर्षोत्फुलविलोचनाः । सहस्राम्रवणोद्यानपाला एत्य व्यजिज्ञपन् ।। ३०६ ।। दिष्ट्याध वर्धसे देव यच्छान्तिस्वामिनोऽधुना । उत्पेदे केवलज्ञानं सहस्राम्रवणस्थितेः ॥३०७ ॥ इत्याकर्ण्य गिरं हृष्टः सद्यश्चक्रायुधो नृपः । पारितोषिकमेतेभ्यो दत्वा स्वामिनमाययौ ॥३०८ ।। तत्र प्रदक्षिणीकृत्य शान्तिनाथं प्रणम्य च । विनयी निषसादानुशक्रं चक्रायुधो नृपः ॥३०९ ।। भूयश्च स्वामिनं नत्वा शक्रश्चक्रायुधोऽपि च । प्रचक्रमे स्तोतुमेवं हर्षगद्गदया गिरा ।।३१०॥ श्रेयोदशाप्रवेशोऽध जगतोऽपि जगत्पते । ज्ञानादित्येन भवता सुदिनोत्सवकारिणा ॥३११॥ १ कल्याणदशायां प्रवेशः ।
देशना।
॥१३२॥