________________
त्रिषष्टिशलाकापुरुषचरिते ॥१३१॥
पञ्चमं पर्व पञ्चमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
पचेलिमफलोद्धान्तकीरपिच्छैर्निरन्तरैः । द्विगुणीभूतमाकन्ददलऋद्धयातिबन्धुरम् ॥२८३ ॥ अधिवापि जलक्रीडारसव्याकुलनागरम् । ययौ सहस्राम्रवणमचिरानन्दनप्रभुः ॥२८४ ।।
॥षड्भिः कुलकम् ॥ शिबिकायास्ततस्तस्याः समुत्तीर्य जगत्पत्तिः । उज्झाञ्चकार रत्नालारमाल्यादि राज्यवत् ।। २८५ ।। ज्येष्ठकृष्णचतुर्दश्यां भरण्यां पश्चिमेऽहनि । कृतसिद्धनमस्कारः कृतषष्ठतपाः प्रभुः ।। २८६ ॥ समं नृपसहस्रेण परिव्रज्यामुपाददे । तदैव चासदज्ज्ञानं मनःपर्यवसंज्ञकम् ॥२८७ ॥ ततश्च मन्दिरपुरे सुमित्रनृपमन्दिरे । पारणं परमान्नेन द्वितीयेऽह्नि व्यधाद्विभुः ॥२८८ ॥ विदधे विबुधैस्तत्र वसुधारादिपञ्चकम् । रत्नपीठं सुमित्रेण स्वामिपादपदे पुनः ।। २८९ ।। अनासीनोऽशयानश्च निःसङ्गो निर्ममः प्रभुः । मूलोत्तरगुणाधारो विजहार वसुन्धराम् ।। २९० ॥ अथ द्वादशमासान्ते विहरन् परमेश्वरः । आगात् सहस्राम्रवणं नगरे हस्तिनापुरे ॥२९१ ।। नन्दिवृक्षतले तत्र षष्ठेन तपसा प्रभोः । शुक्लध्यानान्तरस्थस्य घातिकर्माणि तुत्रुटुः ॥२९२ ।। पौषस्य शुद्धनवम्यां चन्द्रे च भरणीस्थिते । उत्पेदे शान्तिनाथस्य केवलज्ञानमुज्ज्वलम् ।।२९३ ॥ ज्ञात्वा चासनकम्पेन केवलज्ञानमीशितुः । एयुरिन्द्रादयो देवास्तं देशं स्वामिपावितम् ॥ २९४ ॥ संमार्जनीभृत इव देवाः संवर्तकानिलैः । आयोजनमपानैषू रजःकाष्ठतृणादिकम् ।। २९५ ॥ गन्धोदकं च ववृषू रजःशमनहेतवे । पञ्चवर्णा जानुदनीदिव्याः सुमनसश्च ते ॥२९६ ॥ १ वाप्याम् । २ पुष्पाणि ।
केवलज्ञानम् ।
॥१३१ ॥