________________
त्रिषष्टिशलाका
पुरुषचरिते
1193011
***%
किमेतदिति संभ्रान्ता देवाः सारस्वतादयः । प्रायुञ्जतावधिं सम्यग्ज्ञात्वा चैवं मिथोऽवद्न् ।। २६८ ।। अयि द्वीपे जम्बूद्वीपे भरतार्धे च दक्षिणे । अर्हतः शान्तिनस्थिस्य वीक्षाकालोऽयमागतः ।। २६९ ।। तत्प्रभावेण संजातचेतनानीव सम्प्रति । ज्ञापयन्त्यासनान्यस्मान् दीक्षाकालोचिता क्रियाम् ॥ २७० ॥ ज्ञानत्रयेण जानाति भगवान् यद्यपि स्वयम् । तथापि कल्प इति तं स्मारयामो व्रतक्षणम् ।। २७१ ।। एवमन्योऽन्यमालप्य विमानान्यधिरुह्य च । शान्तिनाथमुपाजग्मुर्देवाः सारस्वतादयः ॥। २७२ ।। । ते त्रिः प्रदक्षिणीकृत्य शान्तिनाथं प्रणम्य च । तीर्थं प्रवर्तय स्वामिन्निति प्राञ्जलयोऽवदन् ।। २७३ ।। इत्युदित्वा नमस्कृत्य ययुर्लोकान्तिका दिवम् । पूर्णार्थो नृभिकैः स्वार्थी देवी दानं च वार्षिकम् ॥ २७४ ॥ आत्मानुरूपे तनये राज्यं चक्रायुधे न्यधात् । स्वयं संयमसाम्राज्यमुपादित्सुर्जगत्पतिः ।। २७५ । अथेन्द्रप्रमुखैर्देवैर्नृपैश्चक्रायुधादिभिः । चक्रेऽभिषेकी दीक्षायां चक्रितायामिव प्रभोः ॥ २७६ ॥ सर्वार्थां नाम शिबिकां रत्नसिंहासनान्विताम् । आरुरोह जगन्नाथस्तामूहः प्रथमं नसः ।। २७७ ॥ ततोऽप्युदुहुः पूर्वत्र सुरा दक्षिणतोऽसुराः । सौपर्णेयाश्चापरतो नागा उत्तरतश्च ताम् ।। २७८ ॥ संध्याभ्रवत्पाटलाभिः पाटलीकृतदिग्मुखम् । शिरीषैः शोभित ग्रीष्मश्रीसंगात्पुलकैरिव ।। २७९ ।। घर्मो बिन्दुभिरिव मल्लिकाभिः समाकुलम् । सुवर्णकेतकीकोशः स्मरेवासैरिवाङ्कितम् ॥ २८० ॥ ' ' प्रत्यग्रमुकुलोद्भान्तगुञ्जन्मधुकरालिभिः । घातकीभिर्गीष्मलक्ष्म्या गायनीभिरिवाञ्चितम् ।। २८१ r वनश्रीस्तनसङ्काशपुष्पस्तबकसम्पदा । खर्जूरैर्जर्जरीभूता मधोर्हसदिव श्रियम् ।। २८२ ।। ।
-sangan 405H
१ कामबाणैः ।
पञ्चमं पर्व
पञ्चमः
सर्गः
श्री शान्तिनाथजिन
चरितम् ।
04:
जिनदीक्षा ।
2
॥ १३० ॥