________________
त्रिषष्टिशलाका
पञ्चमं पर्व पञ्चमः
पुरुषचरिते
सर्गः
॥१२९॥
श्रीशान्तिनाथजिनचरितम् ।
अमरैर्बद्धमुकुटैनरेन्द्ररपरैरपि । विदधे चक्रवर्तित्वाभिषेकः शान्तिचक्रिणः ॥२५४ ॥ अभिषेकोत्सवश्चाभून्नगरे हस्तिनापुरे । अपदण्डशुल्कभटप्रवेशो द्वादशाब्दिकः ।। २५५ ।। ततः पृथक् पृथग्यक्षसहस्राधिष्ठतात्मभिः । स चतुर्दशभी रत्नैर्निधिभिर्नवभिः श्रितः ।। २५६ ।। चतुःषष्ट्या सहस्रैश्चावृतोऽन्तःपुरयोषिताम् । लक्षश्चतुरशीत्येभरथाश्वस्य च भूषितः ।।२५७ ।। ग्रामाणां पदिकानां च कोटिषण्णवतेः प्रभुः । द्वात्रिंशतः सहस्राणां भूभुजां नीवृतामिव ।। २५८ ॥ सेवितः सूपकाराणां त्रिषष्ट्यप्रैस्त्रिभिः शतैः । श्रेणिप्रश्रेणिभिश्चाष्टादशभिः शोभमानभूः ।। २५९ ।। महापुरसहस्राणां पाता द्वासप्ततेस्तथा । एकसहस्रोनद्रोणमुखलक्षस्य शासिता ॥२६० ।। पत्तनाष्टाचत्वारिंशत्सहस्राणामधीश्वरः । चतुर्विशसहस्राणां कर्पटानां मडम्बवत् ॥२६१ ॥ रत्नाधाकरसहस्रविशतेरप्यधीशिता । षोडशानां तथा खेटसहस्राणां च शासकः ॥२६२ ॥ चतुर्दशानां संबाधसहस्राणामपि प्रभुः । पञ्चाशतं षडधिकांस्त्रायमाणोऽन्तरोदकान् ।।२६३ ॥ पञ्चाशतः कुराज्यानामेकोनायाश्च नायकः । किमन्यदुपभुआनः षट्खण्डमपि भारतम् ।।२६४ ॥ गीतैास्यैस्ताण्डवैश्च नाटकाभिनयैरपि । पुष्पोच्चयजलक्रीडादिभिश्चानुभवन् सुखम् ।। २६५ ।। आरभ्य चक्रवर्तित्वादष्टवर्षशतोनिताम् । गमयामास सोऽब्दानां सहस्रान् पञ्चविंशतिम् ।।२६६ ।। ब्रह्मलोके तदानीं च लोकान्तिकदिवौकसाम् । आसनानि स्म कम्पन्ते दोलितानीव केनचित् ।। २६७ ॥ १ दण्डकरभटप्रवेशै रहितः । २ पत्तीनाम् । ३ देशानाम् । ४ रक्षकः । ५ पर्वतविशेषाणाम् । ६ खेटो लघुग्रामः ।७ द्वीपान् । ८ किमन्यद्वक्तव्यमिति शेषः ।
चक्रायुधस्य दिग्विजयः ।
|| १२९॥