________________
त्रिषष्टिशलाकापुरुषचरिते ॥१२८॥
पञ्चमं पर्व पञ्चमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
गत्वा ऋषभकूटाद्रौ समादाय च काकिणीम् । शान्तिश्चक्रीत्यक्षराणि कल्प इत्यलिखत्प्रभुः ।। २३९ ।। ततो रथस्यो ववले शान्तिः शान्तारिपौरुषः । प्राप क्रमेण वैताव्यपर्वतोपत्यकाभुवम् ॥ २४०॥ विद्याधरनृपैस्तत्र श्रेणिद्वितयवर्तिभिः । सच्चक्रे चक्रवर्ती स इहामुत्र च शर्मणे ।। २४१ ।। अथ गङ्गातटे गत्वा गङ्गां स्वयमसाधयत् । सेनान्या साधयामास गाङ्ग चोत्तरनिष्कुटम् ॥ २४२ ॥ गुहां खण्डप्रपाताख्यामापपात ततः प्रभुः । नाट्यमालामरं तत्र चकार च वशंवदम् ।। २४३ ॥ सेनानीर्दण्डरत्नेनोद्घाटयामास तां गुहाम् । चक्ररत्नानुगः शान्तिचक्रभृत् प्रविवेश च ।। २४४ ।। पूर्ववन्मणिरत्नेन काकिणीमण्डलैरपि । गुहागृहे ध्वान्तशान्ति शान्तिर्दीपैरिव व्यधात् ।। २४५ ।। लीलयोन्मग्ननिमग्नजले नद्यौ स पद्यया । उत्ततार ससैन्योऽपि दुष्करं नास्ति दोष्मताम् ।। २४६ ।। स्वयमुद्घटितेनापाग्द्वारेण पृतनान्वितः । गुहाया निरगात्तस्याः पञ्चानन इव प्रभुः ॥२४७ ।। न्यधत्त विपुले गङ्गापुलिने शिबिरं प्रभुः । गङ्गातरङ्गतरलैस्तुरङ्गैः समलवृत्तम् ।। २४८ ॥ नैसर्पप्रमुखास्तत्र गङ्गामुखनिवासिनः । नवापि निधयः शान्तेरेत्याभूवन वशंवदाः ॥ २४९ ।। स्वच्छन्दं म्लेच्छभूयिष्ठं गाङ्गं दक्षिणनिष्कुटम् । साधयामास सेनान्या पल्लिमात्रमिव प्रभुः ।। २५० ॥ इत्थं भरतषट्खण्डीमरिषड्वर्गवत्प्रभुः । साधयित्वाष्टभिर्वर्षशतैर्निववृते ततः ।। २५१ ।। प्रयाणैरनवच्छिन्नैश्छिन्दन् मार्ग दिने दिने । आजगाम श्रियां धाम नृहस्ती हस्तिनापुरम् ।। २५२ ॥ पौरैग्राम्यैश्च सोत्कण्ठैर्निर्निमेषैः सरैरिव । वीक्ष्यमाणः शान्तिनाथो ययौ निजनिकेतनम् ।। २५३ ।। १ आचारः ।
ASSASARASASHASIRSA
चक्रायुधस्य दिग्विजयः ।
।। १२८ ॥