________________
त्रिषष्टिशलाकापुरुषचरिते ।।१२७॥
पञ्चमं पर्व पञ्चमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
जगद्योती क्व मार्तण्डः क्व च खद्योतपोतकाः । क्व स्थामधाम गरुडो निःसाराः शलभाः क्व च ।।२२५॥ क्व नागराजो भूधर्ता वराकाः क्व च राजिलाः । स्वयंभूरमणः क्वाब्धिः क्व च श्रोतासि वेश्मनाम् ।।२२६ ॥ क्वैष चक्रधरस्तीर्थकृच्च त्रैलोक्यवन्दितः । वराकाः क्व भवन्तश्च जय्या अस्मादृशामपि ।। २२७ ॥
॥चतुर्भिः कलापकम् ।। यात यात द्रुतं तस्मादपराधमतः परम् । न सहिष्यामहे हंत वयं श्रीशान्तिकिङ्कराः ।। २२८ ।। इति साटोपमुक्तास्तैर्ययुर्मेघमुखाः सुराः । म्लेच्छानबोधयंस्तांश्च शरणं शान्तिरेव वः ।। २२९ ॥ शिष्टा मेघमुखैस्तेऽपि म्लेच्छा निःश्वस्य किंचन । पर्यशाम्यन गतामर्षा द्विपा गतमदा इव ।। २३०॥ वाहनानि विचित्राणि चित्राण्याभरणानि च । वासांसि च महा_णि रूप्यस्वर्णोत्करानपि ।। २३१ ।। प्रभोरुपायनीकृत्य किराताः शरणार्थिनः । सर्वाङ्गलुठनैर्भूमि मृजन्तस्ते समाययुः ।। २३२ ।। ।। युग्मम् ।। समर्योपायनं शान्तेस्ते प्रणम्यैवमब्रुवन् । सदायेदान्ताः स्मः स्वामिन्नरण्यवृषभा इव ।। २३३ ॥ ततोऽस्माभिरजानद्रिस्त्वां स्वामिनमिहागतम् । रभसादपराद्धं यत्तत्सहस्व प्रसीद नः ।। २३४ ॥ स्वाम्यस्यतः परं त्वं नः शाधि साधितभूतलः । स्थास्यामस्तावकीभूय भूयः किं ब्रूमहे वयम् ।। २३५ ॥ एवमुक्त्वा स्थितान् म्लेच्छान् स्वीकृत्यान्वग्रहीत्प्रभुः । असाधयच्च सेनान्या सिन्धोरुत्तरनिष्कुटम् ।।२३६ ॥ छादयन्नन्तरं गङ्गासिन्ध्वोः सैन्यैर्निरन्तरैः । सोऽक्षुद्रंपृतनः क्षुद्रहिमाद्रिमगमत्ततः ॥ २३७ ।। गोशीर्षचन्दनैः पद्महूदाम्भोभिरथापरैः । रत्नैरानर्च हिमवत्कुमारः शान्तिचक्रिणम् ।। २३८ ॥ १ निर्विषसर्पाः । २ उद्धताः । ३ प्रामृतमङ्गीकृत्येत्यर्थः । ४ बृहत्सैन्यः ।
चक्रायुधस्य दिग्विजयः ।
। १२७ ॥