________________
त्रिषष्टि
शलाका
पुरुषचरिते
।।१२६ ॥
तपोऽन्तेऽब्दमुखा देवाः प्रादुर्भूता दिवि स्थिताः । ऊचुर्मा भैष्ट मा भैष्ट वत्साः का वोऽर्तिरुच्यताम् । म्लेच्छा अप्यूचिरे चक्री कश्चिदेष निहन्ति नः । तद्भयादिह नष्टाः स्मः काकनाशमिमे वयम् ।। २११ ।। त्रायध्वं भगवन्तोऽब्दास्त्रा॒तारो यूयमेव नः । उन्मूढे हि क्षुते प्रायेणैकः शरणमर्यमा ॥ २१२ ॥ म्लेच्छानप्यादिशन् देवा मेघैास्या अद्य वो रिपून् । आप्लाव्याद्भिर्हनिष्यामः शीतलेनापि मृत्युना ॥ २१३ ॥ शान्तिसैन्येऽम्बुधाराभिरायसैर्मुसलैरिव । कर्तुमारेभिरेऽथाब्दा महीमेकार्णवामिव ।। २१४ ॥ आप्लाव्यमानं सलिलेनालोक्य शिबिरं निजम् । चक्रभृत् पञ्चमश्चर्मरत्नं पस्पर्श पाणिना ।। २१५ ।। तच्चर्मरत्नं ववृधे सद्यो द्वादशयोजनीम् । सेवालजालडिंडीरपिण्डवच्चातरत्तराम् ॥ २१६ ॥ श्री शान्तिशासनात्तत्र चर्मरत्नेऽखिलं बलम् । आरुरोहोडुप इव निकीलित इव स्थिरे ।। २१७ ॥ चर्मवत् पाणिना स्पृष्ट्वा कृत्वा द्वादशयोजनीम् । सैन्योपरि छत्ररत्नमतनोच्छान्तिचक्रभृत् ॥ २१८ ॥ छत्रस्य दण्डमूले च गवाक्ष इव दीपकम् । मणिरत्नं न्यधाद्ध्वान्तध्वंसाय नृशिरोमणिः ।। २१९ ।। ऊप्ताः प्रभाते मध्याह्ने निष्पन्नास्तत्र शालयः । सैन्यैर्बुभुजिरे गेहिरत्नस्य महिमा ह्ययम् ॥ २२० ॥ तस्थावहानि सप्तैवं ससैन्यः शान्तिचक्रभृत् । सांयात्रिक इवांभोधौ तस्मिन्नेकजलेऽपि हि ।। २२१ ।। तस्याथ किङ्करसुराः कुपिताः शस्त्रधारिणः । इत्यूचिरे मेघमुखकुमारांस्त्रिदिवौकसः ।। २२२ ॥ अरे किमेतदारब्धमविमृश्य विधायिनः । स्वशक्ति परशक्ति च न जानीथ हताशयाः ।। २२३ ।। अभ्रंलिहाग्रशिखरः सुवर्णर्शिखरी क्व च । जानुदघ्ना वामलूराः क्व च मृद्वालुकामयाः ।। २२४ ।। १ नष्टे । २ मेघमुखाः । ३ लोहमयैः । ४ डिंडीरः समुद्रफेनम् । ५ नौकायाम् । ६ मेरुः । ७ वल्मीकाः ।
पञ्चमं पर्व
पञ्चमः सर्गः
श्री शान्तिनाथजिनचरितम् ।
चक्रायुधस्य
दिग्विजयः ।
।। १२६ ।।