________________
त्रिषष्टि
शलाका
पुरुषचरिते
।। १२५ ।।
ते योजनानि भूयांसि गत्वैकत्रामिलन्नथ । मन्त्रयांचक्रिरे चैवममर्षव्रीडपीडिताः ।। १९६ ।। अहो किमिदमस्माकमाकस्मिकमुपस्थितम् । यत्कश्चिदेष वैताढ्यं लङ्घित्वेह समाययौ ।। १९७ ।। तत्रापि चातिमात्रेण सैन्येनानन्यसन्निभः । छादयामास नः पृथ्वीमुद्वेल इव वारिधिः ।। १९८ । पदातिमात्रं तस्यापि कोऽप्येकाङ्गोऽयमुद्भटः । भटोऽस्मान् कुट्टयामास चिरं सुभटमानिनः ॥ १९९ ॥ अन्योऽन्यस्यापि जिद्दीमः प्राक्शौर्योच्छूनबाहवः । अतः परं मुखमपि न स्वं दर्शयितुं क्षमाः ॥ २०० ॥ अधुना प्रविशामः किं दीप्यमानहुताशनम् । झम्पां दद्मोऽथवा मर्तुं गिरिशृङ्गाद्गरीयसः ।। २०१ ।। स्वयं कवलेयामः किं कालकूटं समुत्कटम् । दोलावल्लम्बयामः किं बद्ध्वा स्वं शाखिमूर्धसु ॥ २०२ ॥ स्वोदरं दारयामः किं शस्त्रीभिर्जीर्णचीरवत् । दशनैः खण्डयामः किं जिह्वामिर्वारुखण्डवत् ॥ २०३ ॥ येन तेन प्रकारेण मरणं शरणं हि नः । एवं पराभवाक्रान्तः को मानी जीवितुं क्षमः ॥ २०४ ॥ यदि वैक उपायोऽस्ति परेषां साधनाय नः । आह्वयामो वयं मेघमुखान् स्वकुलदेवताः ॥ २०५ ॥ क्षीणोपायविशेषाणां क्षीणपौरुषसम्पदाम् । परैराक्रम्यमाणानां शरणं कुलदेवताः ॥ २०६ ॥ इति निश्चित्य सर्वेऽपि सिंधो रोधसि ते ययुः । चक्रिप्रतापसंतप्ता मिमंक्षव इवाम्भसि ॥ २०७ ॥ दीना दिग्वाससः सर्वे ते तत्रोत्तानशायिनः । तस्थुर्हारितसर्वस्वा द्यूतकारनरा इव ।। २०८ ।। एवं स्थितास्ते संभूय प्रसादाय पयोमुचाम् । अकार्षुरष्टमतपो भक्तिग्राह्या हि देवताः ।। २०९ ।। १ पीनबाहवः । २ अद्यः । ३ छुरिकाभिः । ४ जीर्णवस्त्रवत् । ५ इर्वारुः भाषायां "काकडी " इति ख्यातः । ६ मेघादीन् । ७ मंक्तुमिच्छवः । ८ नग्नाः ।
पञ्चमं पर्व
पञ्चमः
सर्गः
श्री शान्तिनाथजिन
चरितम् ।
चक्रायुधस्य दिग्विजयः ।
।। १२५ ।।