________________
त्रिषष्टिशलाकापुरुषचरिते ||१२४॥
पञ्चम पर्व पञ्चमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
शरशूलैः केऽपि विवाश्वान् श्वाविध इव व्यधुः । शल्यैरकीलयन् पत्तीन् केऽपि मन्त्रैः परेतवत् ।। १८२ ॥ इत्थं विचित्रं निघ्नन्तस्तन्वन्तस्तुमुलं महत् । वारंवारं करास्फोटं कुर्वाणाः सिंहनादिनः ॥१८३ ।। उच्छलन्तो दुर्ललिताः किराताः प्लवगा इव । अग्रसैन्यं वनमिवाभाक्षुस्ते चक्रवर्तिनः ।। १८४ ॥ सैन्यानां जातभङ्गेन श्रीशान्तेः पृतनापतिः । हुताशन इवाहुत्या दीप्यमानोऽतिभीषणः ।।१८५ ।। कृतान्त इव संनद्धः खड्गरत्नं करेऽदधत् । अश्वरत्नं समारुह्य किरातान् प्रत्यधावत ।। १८६ ।।
॥युग्मम् ॥ सेनानीवाजिनिस्त्रिशास्त्रीणि रत्नानि तानि तु । संयुक्ताः समलक्ष्यन्त त्रयोऽग्नय इवैकतः ।। १८७ ।। गरुडः पादचारीव पाटयन्निव भूतलम् । सेनान्यो मनसा तुल्यं प्रससार स वाजिराट् ।। १८८ ॥ सादिनः पत्तयो वापि किराताः स्थातुमग्रतः । न ह्यलंभूष्णवोऽभूवन्नधोघस्येव शाखिनः ।।१८९ ॥ रन्ध्रेषु केऽप्यदुर्झम्पां केऽपि कुओषु लिलियरे । गिरिषु प्राविशन् केऽपि दुद्रुवुः केऽपि वारिषु ।। १९० ॥ तत्यजुः केचिदस्त्राणि स्ववस्त्राण्यपरे जहुः । मृतीभूयेव केऽप्यस्थुर्निश्चेष्टं लुठिता भुवि ।। १९१ ॥ केषांचिद्बाहवः पेतुः शाखा इव महीरुहाम् । शिरांसि च फलानीव दलानीव करा अपि ।। १९२ ॥ दन्ता निपेतुः केषांचित् केषांचिच्चरणाः पुनः । केषांचित् पुस्फुटुस्तुच्छपात्रवच्च करोटयः ।। १९३ ।। सेनान्यामश्वरत्नेन गाहमाने रणार्णवम् । किं किं विपत्तये नासीद्विद्विषां यादसामिव ।। १९४ ।। एवमालोकितास्तेन ते किराताः क्षणादपि । जग्मुर्दिशो दिशं सर्वे पवनोद्भूततूलवत् ॥ १९५ ॥ १ भाषयां शाहुडी” इति । २ निममज्जुः । ३ करोटिः शिरोऽस्थि ।
चक्रायुधस्य दिग्विजयः ।
॥ १२४ ॥