________________
त्रिषष्टिशलाकापुरुषचरिते ॥१२३॥
FASHI
पञ्चमं पर्व पञ्चमः | सर्गः श्रीशान्तिनाथजिनचरितम् ।
काकिणीरत्नमादाय पाणिनोभयतः प्रभुः । क्रमादेकोनपञ्चाशन्मण्डलान्यालिखन् ययौ ।। १६८ ॥ ततो वर्धकिरत्नेन गुहारथ्यान्तरस्थयोः । स्वाम्युन्मनानिमग्राख्यनद्योः पद्यामबन्धयत् ॥ १६९ ॥ उत्ततार तरङ्गिण्यौ दुस्तरे अपि पद्यया । शान्तिनाथः ससैन्योऽपि सर्वमप्युज दोष्मताम् ।। १७०॥ गुहाया उत्तरद्वारं स्वयमुज्जघटे क्षणात् । प्रभावात् स्वामिनः प्रातः पद्मिनीकोशवद्रवेः ॥ १७१ ।। तस्या गुहाया द्वारेण ससैन्यस्तेन निर्ययौ । सर्वत्रास्खलितो मार्गः प्रभूणां श्रोतसामिव ।। १७२ ।। गुहाया निःसृतं तस्याः ससैन्यं प्रेक्ष्य चक्रिणम् । म्लेच्छाः संभूय संभूय सोपहासमदोऽवदन् ।। १७३ ॥ अरे रे कोऽयमायातोऽप्रार्थितप्रार्थकोऽधुना । अस्मद्देशे सिंहयूथाक्रान्तारण्य इव द्विपः ।। १७४ ।। यथेष्टमुट्टीकमाना भटंमन्याः पदातयः ।धूलीधूसरसर्वांगाः के त्वमी रासभा इव ।। १७५ ।। आरूढकरिणः केऽमी वृक्षस्थाः प्लवगा इव । केऽमी च तुरगारूढास्तरङ्गस्था इवाटयः ।। १७६ ॥ अमी किं पनव इवाधिरूढाः स्यन्दनेषु च । अङ्गारशकटीप्रायमयःखण्डमिदं च किम् ।। १७७ ।। अहो एषामनालोच्यकारित्वमसुमेधसाम् । संभूयैभिर्यदारेभे शृगालैरिव जागरः ।। १७८ ॥ अथवैतानुपेक्ष्यालं विषं वैरी एपेक्षितः । वयमेतान् हनिष्यामः काकोलाः शलभानिव ॥ १७९ ।। एवमन्योऽन्यमुक्त्वा ते विविधायुधपाणयः । प्रावर्तन्ताग्रसैन्येन योद्धं श्रीशान्तिचक्रिणः ।। १८० ॥ निजघ्नुः परिषैः केऽपि वल्मीकानिव कुअरान् । गदाभिः स्यन्दनानेकेंऽपिंषन् घटकपालवत् ॥ १८१ ॥ १ सेतुम् । २ अप्रार्थितस्य मृत्योः प्रार्थयिता ।३ उत्प्लुत्यमानाः । ४ वानराः । ५ मत्स्याः । ६ अशोभना बुद्धिर्येषां ते मूर्खा इत्यर्थः । ७ काकविशेषाः ।
चक्रायुधस्य दिग्विजयः ।
SHASHA
।। १२३ ॥