________________
त्रिषष्टिशलाकापुरुषचरिते ।।१२२॥
पञ्चमं पर्व पञ्चमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
चलितासनः प्रभासपतिः सिंहासनस्थितम् । एत्य श्रीशान्तिमानर्च प्रतीयेष च शासनम् ।। १५४ ॥ सिन्धुदेवीमथोद्दिश्य पश्चिमोत्तरवर्त्मना । चक्रे प्रतस्थे तन्मार्गानुगः शान्तिरपि प्रभुः ॥ १५५ ।। निकषा सिन्धुं सदनं दक्षिणे सिन्धुरोधसि । स्वामी न्यधत्त शिबिरं चलन्नगरसनिभम् ॥ १५६ ।। सिंहासनमथाध्यास्य सिन्धुं मनसिकृत्य च । तस्थौ तत्सम्मुखः स्वामी योगीवाकृष्टितत्परः ।। १५७ ॥ आयातं स्वामिनं ज्ञात्वावधिना सिन्धुदेव्यपि । उपात्तोपायना सद्यो भक्तितस्तमुपाययौ ।। १५८ ।। सा शान्तिस्वामिनं नत्वा जगादैवं कृताञ्जलिः । आदेशकारिणी देशेऽस्मिन्नस्मि पृतनेव ते ।। १५९ ॥ इत्युक्त्वा सार्पयामास भक्तिप्रह्ला जगत्पतेः । रत्नस्वर्णस्नानपीठकलशान् भूषणादि च ।।१६०॥ ततश्चचाल तच्चक्रं सानीकः शान्तिचत्र्यपि । दिशोदक्पूर्वयापच्च वैताब्योपत्यकाभुवम् ॥१६१ ॥ श्रीशान्तिस्वामिनस्तत्र वैताढ्याद्रिकुमारकः । प्राभृतान्यर्पयामास बभूव च वशंवदः ।। १६२ ।। चक्रमार्गानुगः स्वामी तमिस्रा निकषा गुहाम् । जगाम विदधे चाशु कृतमालामरं वशे ।। १६३ ।। श्रीशान्तिशासनात् सिन्धुनदीमुत्तीर्य चर्मणा । सेनानीः साधयामास सिन्धोदक्षिणनिष्कुटम् ।। १६४ ।। ततश्चोद्घाटयामास तमिस्रां पृतनापतिः । कपाटौ ताडयन् दण्डरत्नेनामोघशक्तिना ।। १६५ ।। गजरत्नं समारूढः प्ररूढप्रौढविक्रमः । तस्यां गुहायां सबलस्वामी सिंह इवाविशत् ।। १६६ ॥ दक्षिणे कुम्भिनः कुम्भे मणिरत्नं तमश्छिदे । उदयाद्राविवादित्यं विदधे विश्वसेनसूः ।। १६७ ॥ १ अङ्गीचकार । २ समीपे । ३ आकर्षणतत्परः । ४ सेना । ५ भक्तिनम्रा । ६ ससैन्यः । ७ तमसश्छेदार्थ ।
चक्रायुधस्य दिग्विजयः ।
।। १२२ ।।