________________
त्रिषष्टिशलाकापुरुषचरिते ।।१२१॥
पञ्चमं पर्व पञ्चमः | सर्गः श्रीशान्तिनाथजिनचरितम् ।
।
त्रिजगत्त्राणसंहारक्षमदोष्णो जगत्पतेः । पुरस्तादस्य कोऽस्म्येष खद्योत इव भास्वतः ।। १४० ।। अच्युतेन्द्रादयो यं च पदातिवदुपासते । तस्मिन् भक्तिं करिष्यामि कीदृशीमहमीदृशः ।। १४१ ।। तथापि हि जगन्नाथममुं स्वयमिहागतम् । वाससो दर्शयेवेन्दुमर्चयामि स्वसम्पदा ।। १४२ ।।। इति निश्चित्य मनसा गृहित्वोपायनं महत् । नाथो मागधतीर्थस्य शान्तिनाथमुपास्थित ।। १४३ ॥ सोऽन्तरिक्षस्थितो नाथं प्रणम्यैवमवोचत । दिष्ट्या मां त्रिजगन्नाथान्वग्रहीः पत्तिमात्रकम् ।। १४४ ।। एषोऽस्मि शासनधरः पूर्वदिक्पालकस्तव । दुर्गपाल इवादेश्यस्त्वया स्वामिन्नहर्निशम् ।। १४५ ॥ एवमुक्त्वा नमस्कृत्य सोऽर्पयामास भक्तितः । दिव्यालङ्कारवस्त्राणि शय्यापाल इव प्रभोः ।। १४६ ।। श्रीशान्तिरपि सत्कृत्य गीर्वाणं विससर्ज तम् । प्रतस्थे चक्ररत्नं च दक्षिणाभिमुखं ततः ।। १४७ ॥ दक्षिणाम्भोनिधे रोधस्यरुद्धप्रसरः प्रभुः । चक्रमार्गानुगोऽथागादगाधभुजविक्रमः ।। १४८ ।। उद्दिश्य वरदामानमनाक्षेपो जगत्पतिः । तीरे नीरनिधेरत्नसिंहासन उपाविशत् ।। १४९ ।। ज्ञात्वा चावधिनायातं वरदामपतिः प्रभुम् । गृहीतोपायनोपायोऽपायरक्षार्थमाययौ ।। १५०॥ सोऽपि नाथं नमस्कृत्य तस्यासेवां प्रतीक्ष्य च । उपायनमुपानैषीद्दिव्यालङ्करणादिकम् ।। १५१ ।। सप्रसादं तमालप्य विससर्ज जगत्पतिः । चक्ररत्नमचालीच्च प्रति प्राचेतसी दिशम् ।। १५२ ।। नागवल्लीवनाबद्धपूगद्रुमसमाकुले । प्रतीच्यजलधेः स्कन्धे स्कन्धावारं न्यधाद्विभुः ।। १५३ ।। १ त्रिजगतां रक्षणे नाशे च समर्थबाहोः । २ वस्त्रस्योभयप्रान्ततन्तुर्दशेत्युच्यते । ३ अपायात् नाशाद्रक्षायै स्वस्येति यावत् गृहीतमुपायनं तद्रूप उपायो येन सः । ४ पश्चिमायाम् । ५ तीरे ।
चक्रायुधस्य दिग्विजयः ।
।। १२१ ॥