________________
त्रिषष्टिशलाका
पुरुषचरिते
1192011
श्रीमतः शान्तिनाथस्य राज्यं पालयतः सतः । व्यतियान्ति स्म वर्षाणां सहस्राः पञ्चविंशतिः ।। १२५ ।। शान्तेरथास्त्रशालायां विशालज्योतिराजितम् । अभूच्चक्रमुपपादशय्यायामिव निर्जरः ।। १२६ ।। तस्य चकारयत् स्वामी चक्रस्याष्टाहिकोत्सवम् । पूजामाचारपूज्यस्य पूज्या अपि हि कुर्वते ।। १२७ ।। तच्चक्रमस्त्रशालायाः पयोराशेरिवार्यमा । चचाल पूर्वाभिमुखं मुखं दिग्विजयश्रियः ।। १२८ ।। अरैरिव सहस्रेण यक्षैस्तत्समधिष्ठितम् । अन्वंचालीन्महीपालः सैन्यच्छन्नमहीतलः ।। १२९ ॥ दिने दिने योजनं तद्गत्वा चक्रमवास्थित । द्वादशयोजनायामं कृत्वा च शिबिरं प्रभुः ।। १३० ॥ एवं दिने दिने गच्छन्नच्छिन्नं विश्वसेनसूः । आसदन्मागधं तीर्थं पूर्वाब्धिमुखमण्डनम् ॥ १३१ ॥ स्कन्धावारं दृढस्कन्धः श्रीशान्तिस्तस्य रोधसि । अलब्धमध्यमम्भोधिमिव सद्यो न्यवीविशत् ॥ १३२ ॥ ततो मागधतीर्थाभिमुखं सिंहासनोत्तमे । जिगीषुरप्येनाबद्धविकारो न्यषदत् प्रभुः ।। १३३ ।। तदा द्वादशयोजन्यां तस्थुषो मागधेशितुः । सिंहासनं तदा सद्य खञ्जपादमिवाचलत् ॥ १३४ ॥ अथ संचिन्तयामास मनसा मागधेश्वरः । किमपूर्वमिदमहो चलितं यन्ममासनम् ।। १३५ ।। किं नु च्यवनकालो मे संप्रत्ययमुपस्थितः । ऋद्धिं ममासहिष्णुः किं कोऽप्यचालयदासनम् ॥ १३६ ॥ एवमुत्पन्नसंदेहः प्रयुक्तावधिनाथ सः । अज्ञासीदागतं शान्तिं चक्रिणं धर्मचक्रिणम् ॥ १३७ ॥ भूयो मागधतीर्थाधिपतिरेवमचिन्तयत् । अज्ञानचिन्तितमिदं धिगहो मे शिशोरिव ।। १३८ ॥ अयं हि षोडशस्तीर्थकरश्चक्री च पञ्चमः । मां प्रत्यस्त्येवमासीनोऽनुकम्पागलितः प्रभुः ।। १३९ ॥ १ सततप्रयाणेनेत्यर्थः । २ निर्विकारः । ३ कृपापूर्णः ।
पञ्चमं पर्व
पञ्चमः
सर्गः
श्री शान्तिनाथजिनचरितम् ।
चक्रायुधस्य
दिग्विजयः ।
।। १२० ।।