________________
त्रिषष्टिशलाकापुरुषचरिते ॥११९॥
पञ्चमं पर्व पञ्चमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
राजकन्या नरपतिः शान्तिना पर्यणाययत् । पुत्रोद्वाहोत्सवानां हि न तप्यन्ति महर्द्धयः ।। ११० ॥ पञ्चविंशत्यब्दसहस्राते शान्तिं महीपतिः । राज्ये न्यधान्निजं कार्यमन्वतिष्ठत् स्वयं पुनः ।। १११ ॥ यथावत् पालयामास वसुधां विश्वसेनसूः । महतामवतारो हि विश्वपालनहेतवे ।। ११२ ॥ रेमे पाणिगृहीतीभिरचिरानन्दनोऽपि हि । निकाचितं भोगफलं भोग्यं कर्हितामपि ।। ११३ ।। सर्वान्तःपुरमूर्धन्या तस्य पत्नी यशोमती । स्वप्नेऽपश्यन्मुखे चक्रं विशदभ्रान्तरर्कवत् ।। ११४ ॥ तदा विमानात् सर्वार्थात् पूरयित्वायुरात्मनः । जीवो दृढरथस्यर्षेस्तस्याः कुक्षाववातरत् ।। ११५ ॥ तदानीमेव सा सुप्तोत्थिता देवी यशोमती । नाथाय शान्तिनाथाय तमाख्यत् स्वप्नमात्मनः ॥ ११६ ॥ ज्ञानत्रयधरः शान्तिस्वामी व्याख्यादिदं ततः । आसीद्दढरथो नाम मम जन्मान्तरेऽनुजः ।। ११७ ॥ च्युत्वा विमानात् सर्वार्थात् स इदानीं तवोदरे । अवातारीत्तनूजं तं समये प्रसविष्यसे ।। ११८ ॥ तदामोघं वचः पत्युः प्रगेऽब्दस्येव गर्जितम् । श्रुत्वा प्रमुदिता देवी सद्यो गर्भ बभार तम् ।। ११९ ॥ काले च सुषुवे पुत्रं पवित्रं पूर्णलक्षणम् । देवी यशोमती पत्युः प्रतिबिंबमिवाद्भुतम् ॥ १२० ॥ गर्भस्थेऽस्मिन् यशोमत्या स्वप्ने यच्चक्रमीक्षितम् । तेन चक्रायुध इति तस्य नामाकरोत् पिता ।। १२१ ।। चक्रायुधोऽपि ववृधे करिपोत इव क्रमात् । धात्रीर्भिाल्यमानः सन्नृलोकतिलकोपमः ॥ १२२ ॥ यौवनं युवतीवर्गविलोचनविमोहनम् । अनङ्गलीलोपवनं प्राप चक्रायुधः क्रमात् ।। १२३ ।। । स्वयंवराः श्रिय इव रूपलावण्यशालिनीः । अनेकशो राजपुत्रीः पिता तेनोदवाहयत् ।। १२४ ॥
विवाहः ।
॥११९ ॥
१ भार्यामिः ।२ मेघान्तः सूर्यवत् । ३ सत्यम् । ४ प्रातःकाले ।