________________
त्रिषष्टि
शलाकापुरुषच 1199611
अर्हतोऽर्हज्जनन्याश्च योऽशुभं चिन्तयिष्यति । तस्यार्जकमञ्जरीवद्भेत्स्यते सप्तधा शिरः ।। ९६ ।। ॥ युग्मम् ॥
रत्नस्वर्णमहावृष्टि नगरे हस्तिनापुरे । तत्राकरोद्वैश्रवणः पाकशासनशासनात् ।। ९७ ।। तां चापस्वापनीं देव्याः पद्मिन्या इव भास्करः । हरिर्जहार तच्चार्हत्प्रतिबिंबं क्षणादपि ॥ ९८ ॥ अथार्हतः पञ्चधात्रीरादिश्याप्सरसो हरिः । ततो नन्दीश्वरेऽगच्छन्मेरोरन्ये तु वासवाः ।। ९९ ।। शाश्वतार्हत्प्रतिमानां तत्र चाष्टाहिकोत्सवम् । विधाय विधिवत्प्रीताः सर्वे स्वस्वपदं ययुः ।। १०० ॥ अनिद्रा ततो देवी दिव्यालङ्कारवासमम् । दिव्याङ्गरागमुत्तेजः प्रसरं सूनुमैक्षत ॥ १०१ ॥ आनन्दरभसोद्भान्तो गत्वा देव्याः परिच्छदः । राज्ञेऽशंसत् सूनुजन्म दिक्कुमार्यादि कर्म च ॥ १०२ ।। ततश्च मुदितो राजादात्तस्मै पारितोषिकम् । ऋद्ध्या चक्रे महत्या च सूनुजन्ममहोत्सवम् ॥ १०३ ॥ अशाम्यन्नशिवान्यस्मिन्गर्भस्थ एव भूपतिः । तस्य नामाकरोत्प्रीतः शान्तिरित्यात्मजन्मनः ।। १०४ ॥ शक्रसंक्रमितसुधं निजाङ्गुष्ठं क्षुधा पिबन् । धात्रीभिर्लाल्यमानश्च क्रमेण ववृधे प्रभुः ।। १०५ ।। आजन्म ज्ञानवृद्धोऽपि बाललीलायितानि सः । विविधानि व्यधात्सर्वं शोभते समयोचितम् ॥ १०६ ॥ आशातनाभीतभीता घुसदोऽरमयन् प्रभुम् । स्वामिना पांशुखेलाभिः स्वं महार्घं चिकीर्षवः ।। १०७ ।। निःशङ्कं तांश्च पादादि क्रीडायां न व्यहन् प्रभुः । दयावीरा महात्मानः प्रसृतेऽन्यरसेऽपि हि ।। १०८ ।। एवं च नानाक्रीडाभिः क्रीडन् क्रीडागृहं श्रियः । चत्वारिंशद्धनुस्तुङ्गः प्रपेदे यौवनं प्रभुः ।। १०९ ॥ १ अर्जको वृक्षविशेषः । २ अपगता निद्रा यस्याः सा ।
पञ्चमं पर्व
पञ्चमः
सर्गः
श्री शान्तिनाथजिन
चरितम् ।
नामकरणम् ।
।। ११८ ।।