________________
त्रिषष्टिशलाकापुरुषचरिते ||११७॥
पञ्चमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
HARASHRSASARSHAS
तद्विषाणाग्रनिर्यातैर्वारिभिः स्वामिनं हरिः । स्नपयामास विमलैर्धारायन्त्रोत्थितैरिव ।। ८२ ॥ ममार्ज देवदृष्येण गोशीविलिलेप च । दिव्यालझरमालाभिरानर्च च हरिः प्रभम ॥ ८३ ॥ आरात्रिकमथोत्तार्य स्वामिनो विधिपूर्वकम् । पवित्रं स्तोत्रमारेभे हर्षगद्गदया गिरा ॥ ८४ ।। भगवन् भवते विश्वजनीनायाद्भुतर्द्धये । संसारमरुमार्गकच्छायाविटपिने नमः ।। ८५ ।। संचितैनस्तमस्विन्याः प्रभातसमयो मया । त्वदीयं दर्शनं दिष्ट्याधिगतं परमेश्वर ।। ८६ ।। लोचनान्यपि धन्यानि यैर्दष्येऽसि जगत्पते । तेभ्योऽपि पाणयो धन्यास्त्वत्संस्पर्शोऽन्वभावि यैः ।। ८७ ॥ विद्याधराणां महर्द्धिश्चक्रवर्ती कदाप्यसि । प्रकृष्टोऽस्येकदा देवो बलदेवोऽसि चैकदा ।। ८८ ।। एकदाप्यच्युतेन्द्रोऽसि ज्ञानी चक्रभृदेकदा । एकदा त्वं महेन्द्रोऽसि ग्रैवेयकविभूषणम् ।। ८९ ।। महासत्वोऽवधिज्ञानधरो राजासि चैकदा । सर्वार्थसिद्धालङ्कारोऽहमिन्द्रः पुनरेकदा ॥९० ॥ क्व क्व जन्मनि नाभूस्त्वमुत्कृष्टः परमेश्वर । तीर्थकृज्जन्मना त्वद्य पर्याप्ता वर्णना गिरः ।।९१ ॥ नेशोऽस्मि त्वद्गुणान् वक्तुं स्वमर्थं किं तु वच्यहम् । भवे भवे भवतु मे भक्तिस्त्वत्पादपद्मयोः ।।९२ ।। इति स्तुत्वेशमीशानात् पुनरादाय वज्रभूत् । आशु गत्वाचिरादेव्याः पार्वेऽमुञ्चद्यथास्थितिः ।। ९३ ॥ स्वामिनो दृग्विनोदायोपरि श्रीदामगण्डकम् । देवदूष्ये कुण्डले चोच्छीर्षके तु न्यधाद्धरिः ।। ९४ ॥ अथेत्थं घोषयामास मोघवाग्मघवामरैः । अमरेष्वथ दैत्येषु मानवेष्वपि दुर्गतिः ।। ९५ ॥ १ संचितपापान्येव रात्रिस्तस्याः ।
इन्द्रकृतोजन्मोत्सवः ।
॥११७॥