________________
त्रिषष्टिशलाकापुरुषचरिते ||११६॥
पञ्चमं पर्व पञ्चमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
प्राग्रम्भासदने नीत्वा न्यस्य सिंहासने च तौ । ता देव्योऽस्नपयन् गन्धपुष्पशुद्धोदकैस्ततः ।। ६७ ॥ द्वावप्यामोच्य दिव्यानि वस्त्रालङ्करणानि ताः । उदग्रम्भागृहे नीत्वा रत्नसिंहासने न्यधुः ।। ६८ ॥ गोशीर्षचन्दनं क्षुद्रहिमाद्रेराभियोगिकैः । आनाय्याप्लुष्य चाबध्नन् रक्षाग्रन्थिं द्वयोरपि ।।६९ ।। पर्वतायुर्भवेत्युच्चैर्वदन्त्यो जिनकर्णयोः । ताः समास्फालयामासू रत्नपाषाणगोलकौ ॥७० ॥ जिनेन्द्रजिनजनन्यौ निन्युस्ताः सूतिकागृहे । पर्यङ्के न्यस्य तस्थुश्च गायन्त्यो भगवद्गुणान् ।।७१ ॥ तदा चासनकम्पेन ज्ञात्वार्हज्जन्म वज्रभृत् । पालकेन विमानेन तत्रागात्सपरिच्छदः ।। ७२ ।। नमस्तुभ्यं रत्नकुक्षिधारिणीति वदन्न्यधात् । शक्रोऽवस्वापनी देव्या रूपान्तरमथार्हतः ।।७३ ॥ पञ्चरूपस्ततो भूत्वा चतुर्भिरिव दर्पणैः । तत्र चैकेन रूपेण पाणिभ्यां प्रभुमुद्दधे ॥७४ ।। दधानश्चामरे द्वाभ्यां छत्रमेकेन चोज्वलम् । एकेन च पुरो वल्गु वज्रमुल्लालयन् ययौ ।।७५ ।। क्षणाद्गत्वा मेरुशैलेऽतिपाण्डुकम्बलां शिलाम् । सिंहासने निषसाद शक्राकारोपितप्रभुः ॥७६ ।। तदैवासनकम्पेनाच्युताद्या अपि वासवाः । त्रिषष्टिरपि तत्रादौ ससङ्केता इवाययुः ॥७७ ॥ दिनीनाथह्रदिनीहूदादिभ्यः समाहृतैः । पयोभिः पूरितैः कुम्भैरच्युतोऽस्नपयत् प्रभुम् ।।७८ ॥ तं षोडशं तीर्थकर तीर्थाम्भ कुम्भपाणयः । अन्येऽपि स्नपयामासुषिष्टिरपि वासवाः ।। ७९ ।। पञ्चमूर्तिरथेशानो दधौ मूत्यैकया प्रभुम् । तिसृभिश्चामरायग्रे तस्थौ शूलभृदन्यया ।। ८० ॥ भर्तुश्चतुर्ष पार्वेषु स्फाटिकांश्चतुरो वृषान् । शक्रो विचक्रे सपदि कंकुब्मासानिवामलान् ॥ ८१ ॥ १ परिघाप्य । २ दग्ध्वा । ३ आदिशब्देन छत्रम् । ४ दिक्प्रकाशन् ।
इन्द्रकृतोजन्मोत्सवः ।
11११६॥