________________
त्रिषष्टिशलाकापुरुषचरिते ||११५॥
पञ्चमं पर्व पञ्चमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
ततश्च दिक्कुमारीणामासनानि चकम्पिरे । अर्हज्जन्मावधिज्ञानादजानन् जहूषुश्च ताः ॥ ५२ ॥ अधोलोकादथाष्टेयुर्दिक्कुमार्योऽर्हदोकसि । नेमुर्जिनेन्द्र विधिवज्जिनेन्द्रजननी च ताः ।। ५३ ॥ देव्यै स्वं ज्ञापयित्वा ता मा भैषीरित्युदीर्य च । संवर्तकानिलेनापनिन्युरायोजनं रजः ।। ५४ ॥ जिनेन्द्रजिनजनन्योरनत्यासन्नदूरतः । गायन्त्यस्तद्गुणांस्तस्थुर्गायन्य इव तास्ततः ।। ५५ ॥ अष्टोललोकादीयुर्दिग्देव्यः प्राग्विधिपूर्वकम् । विकृत्याब्दान् सिषिचुः क्ष्मां गायन्त्योऽस्थुस्तथैव ताः ॥५६॥ अष्टेयुः पूर्वरुचकाद्देव्यो दर्पणपाणयः । जिनं जिनाम्बां नत्वास्थुर्गायन्त्यः पूर्वदिश्यथ ।। ५७ ॥ देव्योऽपाग्रुचकादेयुरष्टौ भृङ्गारपाणयः । नत्वार्हन्तं तदम्बां च गायन्त्योऽस्थुरपाग्दिशि ।। ५८ ।। प्रत्यग्रुचकतोऽष्टेयुर्देव्यो नत्वा जिनाचिरे । गायन्त्यस्तद्गुणांस्तस्थुः प्रतीच्या व्यजनाञ्चिताः ।। ५९ ॥ उदग्रुचकतोऽप्येत्य देव्योऽष्टौ तौ प्रणम्य च । उदीच्यां चामरभृतस्तस्थुस्तद्गुणगायिकाः ॥६० ।। विदिग्रुचकतोऽप्येत्य चतस्रो दिक्कुमारिकाः । प्राग्वन्नत्वा विदिश्वस्थुर्गायन्त्यो दीपपाणयः ॥६१ ॥ चतस्रो रुचकद्वीपान्तःस्था एत्य प्रणम्य तौ । नालं जिनेन्द्रस्य चतुरडलोत्कर्षमच्छिदन् ॥ २ ॥ खनित्वा विवरं द्रव्यं निधाय तत्र तन्यधुः । रत्नैर्वब्रैस्तदापूर्याबध्नन् पीठं च दुर्वया ।। ६३ ।। सूतिकावेश्मनस्तस्य पूर्वोदग्दक्षिणासु ताः । सचतुःशालानि रम्भासदनानि विचक्रिरे ॥६४ ॥ नीत्वार्हदचिरादेव्यौ दक्षिणे कदलीगृहे । रत्नसिंहासने मध्ये चतुःशालं निवेश्य च ॥६५॥ ! दिव्यैः सुरभिभिस्तैलैरभ्यान रुभावपि । ततश्चोर्तयामासुर्गन्धद्रव्यैः सुगन्धिभिः ।।६६ ॥ १ गानकारिण्यः । २ विवरं गत्तं । ३ अभ्यङ्गं चक्रुः ।
दिक्कुमारीकृतोजन्मोत्सवः ।
॥११५ ।।