________________
त्रिषष्टिशलाका
पुरुषचरिते
पञ्चमं पर्व पञ्चमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
॥११४॥
विकस्वरैः सुरभिभिः सुन्दरं सरसीरुहैः । सरोवरं पयःपूर्ण पद्महूद इवापरः ।। ३७ ॥ समालिलिनिषुरिवाभ्रमालामम्बरस्थिताम् । उदंचयन्वीचिहस्तानपारो मकराकरः ।। ३८ ॥ विचित्ररत्नकलशं पताकामालभारि च । विमानं चाप्रतिमानं व्योम्नः प्रसादसन्निभम् ।।३९ ।। सूर्यादिज्योतिषां सृष्टिपुद्गलानामिवोच्चयः । रत्नपुओऽम्बरतलं लिम्पन्नुरुमरीचिभिः ।। ४० ।। अभ्रंलिहाभिः कीलाभिर्जिह्वाभिरिव भूरिभिः । तमःपूरं कवलयन्निधूमश्च विभावसुः ।। ४१ ॥ सुप्तोत्थिता तु सा देवी विश्वसेनाय भूभुजे । तान् स्वप्नान् कथयामास व्याचख्याविति सोऽपि हि ।। ४२ ।। लोकोत्तरगुणः श्रीमांस्त्रैलोक्यत्राणकर्मठः । एभिः स्वप्नैर्महादेवि तव सूनुभविष्यति ।। ४३ ।। नैमित्तिकैरपि प्रातः पृष्टेरूचे तवात्मजः । चक्री वा धर्मचक्री वा स्वप्नैरेभिर्भविष्यति ।। ४४ ।। स्वप्नार्थावेदकान्राजा सत्कृत्य विससर्ज तान् । देवी च रत्नगर्भेव गर्भरत्नं बभार सा ।। ४५ ।। प्रागुत्पन्नान्यशिवानि तदा चासन्ननेकशः । उद्वेगरोगमार्यादिकारीणि कुरुमण्डले ।। ४६ ।। तत्पशान्त्यै जनश्चक्रे नानोपायानुपायवित् । तानीषदपि नाशाम्यन्नम्भोभिर्वाडवानिवत् ॥४७ ।। भगवत्यचिरादेव्याः प्राप्तमात्रेऽपि गर्भताम् । अशाम्यन्नशिवान्यर्हप्रभावस्यावधिर्न हि ।। ४८ ॥ ततो नवसु मासेषु दिनेष्वर्धाष्टमेषु च । ज्येष्ठकृष्णत्रयोदश्यां भरणीस्थे निशाकरे ।। ४९ ।। ग्रहेषु चोच्चसंस्थेषु मृगाङ्कमिव पूर्वदिक् । मृगाङ्कं काञ्चनरुचिमचिरा सुषुवे सुतम् ।। ५० ॥ तदा च क्षणमुद्योतस्त्रिजगत्यप्यजायत । अपि नारकजन्तूनां सुखं चाभूतपूर्व्यभूत् ।। ५१ ॥ १ मेघमालाम् । २ कलोला एव हस्तास्तानुदंचयन्नू/कुर्वन् । ३ ज्वालाभिः । ४ अग्निः । ५ अशुभानि ।
RASRHAHARASHRSHARASHARAM
जिनजन्म।
॥११४ ।।