SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरि 11993 11 नभस्यकृष्णसप्तम्यां भरणीस्थे निशाकरे । ततश्च्युत्वाचिरादेव्याः स कुक्षौ समवासरत् ॥ २६ ॥ सुखप्रसुप्तया देव्या निशाशेषे क्रमादमी । मुखे विशन्तोऽदृश्यन्त महास्वप्नाश्चतुर्दश ॥ २७ ॥ क्षेरन्मदजलामोदमाद्यन्मधुलिहां स्वनैः । मुखे प्रवेशनानुज्ञां याचमान इव द्विपः ॥ २८ ॥ त्रसत्वमाप्तः कैलासगण्डशैल इवामलः । उद्दण्डपुण्डरीकर्द्धिलुंटाकोऽङ्गत्विषा वृषः ।। २९ ।। उन्नालमुकुलीभूतरक्तराजीवबन्धुना । उत्क्षिप्तवालहस्तेन शोभमानश्च केसरी ॥ ३० ॥ क्रियमाणाभिषेकाच करिभ्यां पार्श्वयोर्द्वयोः । महालक्ष्मीर्दिव्यरूपा रूपान्तरमिवात्मनः ॥ ३१ ॥ पञ्चवर्णैर्दिव्यपुष्पैर्दाम ग्रथितमायतम् । ऋजुरोहितसंकाशमाकाशश्रीविभूषणम् ॥ ३२ ॥ अखण्डमण्डलोद्योती पार्वणो रजनीपतिः । नैर्मल्यभूमिः ककुंभामादर्श इव राजतः ॥ ३३ ॥ सत्यामपि विभावर्यां दर्शयन् वासरश्रियम् । कराङ्कुरप्ररो हैकमहाकन्दो दिनेश्वरः ॥ ३४ ॥ पाताकाया लासिकाया इव लास्यैकैमन्दिरम् । दृशां विश्रामसदनमायतश्च महाध्वजः ।। ३५ ।। औमोदमेदुरस्मेरसरोजपिहिताननः । विशालपूर्णकुम्भश्च श्रीदेवा इवं विष्टरः ॥ ३६ ॥ १ भाद्रपदमासः । २ क्षरन्मदजलस्यामोदेन मत्तानां भ्रमराणाम् । ३ जङ्गमत्वमिति तात्पर्यम् । ४ अङ्गकान्त्या विकसितकमलानां शोभां चोरयतीति तथा । ५ ऊर्ध्वनालं मुकुलीभूतं च यद्रक्तकमलं तत्सदृशेन । ६ ऊर्ध्वकृतपुच्छेन । ७ अचिरादेव्याः प्रतिकृतिमिव । ८ इन्द्रधनुः सदृशम् । ९ पूर्णिमायाः । १० दिशाम् । ११ रूप्यमयः । १२ कराः किरणा एवाङ्कुराः तेषां प्ररोहेऽद्वितीयो महाकन्दसमानः । १३ नर्तक्याः । १४ नृत्यैकमन्दिरम् । १५ आमोदेन व्याप्तानि यानि प्रफुल्लकमलानि तैः छन्नमुखः । १६ आसनम् । पञ्चमं पर्व पञ्चमः सर्गः श्री शान्तिनाथजिन चरितम् । चतुर्दश स्वप्नाः । ।। ११३ ।।
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy