________________
त्रिषष्टिशलाका
पुरुषचरिते 11993 11
तस्यापारो यशोराशिः पयोराशिरिवापरः । जग्रसे विद्विषां कीर्तीर्गुर्वीरपि नदीरिव ।। १२ ।। प्रभावसाधिताशेषद्विषस्तस्यैकभूपतेः । अस्त्राण्यव्यापृतान्यासन्निधानीकृतवित्तवत् ।। १३ ।। गलेषु युध्यमानानां पृष्ठेषु शरणार्थिनाम् । पादं पाणि च स ददौ निर्विशेष इव द्वयोः ।। १४ ।। तेन को शादपकृष्टस्तरवारी रणाङ्गणे । कोशीबभूव स्वयमप्यागताया जयश्रियः ।। १५ ।। बन्धुर्न्यायः प्रिया कीर्तिः सुहृदो विमला गुणाः । पत्तिः प्रताप इत्यासीत्तस्याङ्गोत्थः परिच्छदः ॥ १६ ॥ समुन्नतिजुषस्तस्य जगदानन्ददायिनः । जीमूतस्येवाचिरांशुरचिरा नाम पल्यभूत् ॥ १७ ॥ यथा बभूव सा देवी स्त्रीजनेषु शिरोमणिः । तस्याः शीलमपि तथा गुणेषु विनयादिषु ।। १८ ।। सतीमतल्लिका साधाद्धृदयस्य विभूषणम् । बहिर्मुक्ताहार इव मध्येपतिमहर्निशम् ॥ १९ ॥ तन्निर्माणबहिर्भूतैः परमाणुकणैरिव । सृष्टाः सुरस्त्रियाऽप्याभांस्तद्रूपालोकने सति ॥ २० ॥ विचरन्ती जगद्वन्द्या पादचङ्क्रमणेन सा । पृथिवीं पावयामास प्रवाहेणेव जाह्नवी ।। २१ ।। ह्रीनमत्कन्धरा नित्यमपश्यदद्ध्रुवमेव सा । मत्पतेरपि पाल्येयमिति प्रीतिवशादिव ।। २२ ।। सर्वेऽपि स्त्रीगुणास्तस्यामवदाताश्चकाशिरे । यथा सौमनसोद्यानवीथ्यां कुसुमजातयः ।। २३ ।। विश्वसेनाचिरादेव्योः साम्राज्यसुखलीनयोः । कालः कियानपि ययाविन्द्रेन्द्राण्योरिवोन्मुदोः ।। २४ ।। इतश्च सर्वार्थसिद्धे विमानेऽनुत्तरोत्तमे । सुखमग्नो मेघरथजीवः स्वायुरपूरयत् ॥ २५ ॥ १ अप्रयुक्तानि । २ युध्यमानानां गलेषु पादं शरणार्थिनां पृष्ठेषु हस्तमिति क्रमात् । ३ असिः । ४ मेघस्य विद्युदिव । ५ सतीषु श्रेष्ठा ।
पञ्चमं पर्व पञ्चमः
सर्गः
श्री शान्तिनाथजिन
चरितम् ।
अचिरादेवीकुक्षौ
अवतारः ।
।। ११२ ।।