________________
पञ्चमः सर्गः ।
त्रिषष्टिशलाकापुरुषचरिते ||१११॥
पञ्चमं पर्व पञ्चमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
अथास्य जम्बूद्वीपस्य वर्षे भरतनामनि । महर्द्धि कुरुदेशेऽस्ति नगरं हस्तिनापुरम् ॥१॥ शातकुम्भमयाः कुम्भास्तत्र प्रासादमूर्धसु । कलयन्ति सदोद्भूतस्थलाम्भोजवनश्रियम् ।।२।। तस्मिश्च परितो भाति दीर्घिका वलयाकृतिः । विमलस्वच्छसलिला प्राकारस्येव दर्पणः ।। ३ ॥ तत्रोद्यानेषु राजन्ते सारणीनां तटे तटे । स्निग्धद्रुमा जलादानावतीर्णा इव वारिदाः ।। ४ ।। निशि तत्रौकसां रत्नवलभीषु निशाकरः । लिह्यते प्रतिबिंबस्थो दधिपिण्डधियौतुभिः ॥ ५ ॥ तच्चैत्येषु प्लुष्यमाणागरुधूमलतास्तताः । खेचरीणां प्रयच्छन्ति पटवासमयत्नजम् ॥६॥ तत्राट्टपङ्क्तौ लक्ष्यन्ते रत्नमालाः प्रलंबिताः । रत्नसर्वस्वमानीतं सर्वरत्नाकरादिव ॥७॥ तत्र चैत्येषु भूमिष्ठा ध्वजच्छायाश्चलाचलाः । भान्ति धर्मनिधानस्य रक्षाविषधरा इव ॥ ८ ॥ इन्द्रनीलावनीकानि वासवेश्मानि तत्र च । दर्शयन्ति पयःपूर्णक्रीडावापीसमानताम् ।।९।। तस्मिन्निक्ष्वाकुवंशाब्धिसुधांशुर्नयनोत्सवः । यशोज्योत्सनांधौतविश्वो विश्वसेनोऽभवन्नृपः ॥१०॥ वज्रागारं शरण्यानामर्थिनां कल्पपादपः । सख्यसङ्केत्तभूः श्रीवाग्देव्योरपि बभूव सः ॥ ११ ॥ १ सुवर्णमयाः । २ क्षुद्रनदीनां । ३ बिडालैः । ४ विस्तृताः । ५ रक्षाकारिणः सर्पा इव । ६ इन्द्रनीलमणीनां पृथ्वी येषु तानि । ७ लक्ष्मीसरस्वत्योः ।
*SSSSSSSSSS
अचिरादेवीकुक्षौ अवतारः।
॥१११ ॥