________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥११०॥
विंशत्या स्थानकैरर्हद्भक्तिप्रभृतिभिः शुभैः । कर्मार्हन्नामगोत्रं स दुरुपार्जमुपार्जयत् ।। ३५५ ॥ सिंहनिःक्रीडितं नाम स कृत्वा दुस्तपं तपः । श्रामण्यं पालयित्वा च पूर्वलक्षमखण्डितम् ।। ३५६ ।। आरुह्याम्बरतिलकं गिरिं गिरिरिव स्थिरः । महात्मा विधिवत् प्रायं चक्रे मेघरथो मुनिः ।। ३५७ ।। पूर्णायुरापथ मेघरथो विमानं सर्वार्थसिद्धिमनुजेन समन्वितोऽपि । तत्रापितामनुबभूवतरां त्रयस्त्रिंशद्यायुरव्ययपदोपपथे सुखानि ।। ३५८ ।।
*****
इत्याचार्य श्री हेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये पञ्चमे पर्वणि श्रीशान्तिनाथदेवीयदशमैकादशभववर्णनो नाम चतुर्थः सर्गः ।
१ प्रायमनशनम् । 'भ्रात्रा सहैवानशनं चक्रे मेघरथो मुनिः' इति पाठान्तरम् ।
पञ्चमं पर्व
चतुर्थः
सर्गः
श्री शान्तिनाथ जनचरितम् ।
मेघरथदेवलोकः
गमनम् ।
।। ११० ।।