________________
पञ्चमं पर्व चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते ।।१०९॥
सर्गः श्रीशान्तिनाथजिनचरितम् ।
सर्वं जानासि सर्वस्य हितोऽसि च जगत्पते । तथापि प्रार्थये स्वामिन् स्वार्थे क इव नोत्सुकः ।।३४२ ।। यावत्कुमारं स्वे राज्ये निधायेहापताम्यहम् । दीक्षादानाय मे नाथ त्वया तावत्प्रतीक्ष्यताम् ।। ३४३ ।। न प्रमादो विधातव्य इति शिष्टोऽर्हता स्वयम् । ययौ मेघरथो वेश्मावरजं चेत्यवोचत ।। ३४४ ॥ आदत्स्व वत्स भूभारं यथा हि प्रव्रजाम्यहम् । भवभ्रमणतोऽमुष्मान्निर्विण्णोऽस्म्येष पान्थवत् ।। ३४५ ॥ ततो दृढरथोऽप्येवं जगाद रचिताञ्जलिः । दुःखः खल्वेष संसारस्त्याज्य एव विवेकिभिः ।। ३४६ ।। अस्मिन्नेवविधेऽपारे कूपार इव दुस्तरे । आरोप्य धरणीभारं कथं मुञ्चसि मां प्रभो ॥३४७ ॥ आत्माभेदेन मामद्य यावद्दष्ट्वाधुना पृथक् । किं करोषि प्रसीदेश मामप्यात्मवदुद्धर ।।३४८ ।। अद्यैव तातपादान्ते भवत्पादैः सहैव हि । प्रव्रजिष्याम्यहं स्वामिन्नन्यस्मै दीयतां मही ।। ३४९ ॥ ततो मेघरथो राज्यं मेघसेने निजात्मजे । यौवराज्यं रथसेने न्यधाद् दृढरथात्मजे ॥३५० ॥ ततश्च मेघसेनेन कृतनिष्क्रमणोत्सवः । समं दृढरथेनात्मजन्मनां सप्तभिः शतैः ।। ३५१ ।। राज्ञां चतुःसहस्या च गत्वा भगवतोऽन्तिके । सर्वसावधविरतिं राजा मेघरथोऽग्रहीत् ।। ३५२ ॥
॥युग्मम् ।। परीषहानुपसर्गान सहमानोऽतिदुःसहान् । त्रिगुप्तिः पञ्चसमितिर्निराकाङ्क्षो वपुष्यपि ॥३५३ ॥ विविधाभिग्रहतपःपरो दृढरथान्वितः । एकादशाङ्गीधरणो धरणी विजहार सः ।।३५४ ।।
।। युग्मम् ॥
मेघरथदीक्षा ।
॥ १०९ ॥
१ अनुजम् । २ दुःखरूपः । ३ समुद्रः । ४ आत्मसदृशेन । ५ पुत्राणाम् ।