________________
त्रिषष्टिशलाकापुरुषचरिते ॥१०८॥
पञ्चमं पर्व चतुर्थः सर्गः श्रीशान्तिनाथजिनचरितम् ।
काचिदालीजनालापव्यपदेशान्मुहुर्मुहुः । धूलतोत्क्षेपमकरोत् स्मरास्त्रोत्क्षेपसन्निभम् ॥ ३२८ ॥ स्मरेतिवृत्तसंदृब्धं गांधारग्रामबन्धुरम् । मुखदृष्टिविकाराढ्यं जगौ काप्यनुरागिणी ।। ३२९ ॥ कामशास्त्रकथालापं कापि लीलावती मुहुः । स्वानुभूतरतक्रीडाप्रस्तावनपराकरोत् ॥३३०॥ पित्तादीनां प्रकृतीनामनुरूपाणि धातुना । रतोपेज्ञानि करणान्यालिलेखापरा पुनः ॥ ३३१ ॥ ययाचे काचिदालापं करस्पर्श च काचन । दृष्टिप्रसादं काचिच्च काचिदालिङ्गनं पुनः ॥ ३३२ ॥ कलाप्रकारान् विविधान् व्यधुरेवं महीपतेः । विभावर्यामाविभात विकृत्य सुरयोषितः ॥ ३३३ ।। हप्रहारवद्वजे मोघीभूतानि भूभुजि । तानि वैक्रियरूपाणि देव्यौ संजतुस्ततः ॥३३४ ॥ क्षमयित्वा मेघरथं नत्वा चानुशयान्विते । ईशानेन्द्रमहिष्यौ ते निजधामनि जग्मतुः ॥३३५ ॥ राजाप्यपारयत्प्रीतः प्रतिमामथ पौषधम् । स्मारं स्मारं निशावृत्तं परं संवेगमासदत् ॥ ३३६ ॥ महादेवी प्रियमित्रा प्रियमालोक्य तादृशम् । सापि संवेगमापेदे सत्यो हि पतिवम॑गाः ॥३३७ ॥ अथापरेधुर्विहरन्नर्हन् घनरथः स्वयम् । तत्रैत्य समवासार्षीत् पूर्वोत्तरदिशि प्रभुः ।। ३३८ ॥ स्वाम्यागमनमाचख्यू राज्ञे चायुक्तपूरुषाः । स पारितोषिकं तेभ्यो दत्त्वागात्सानुजः प्रभुम् ।।३३९ ॥ आयोजनविसर्पिण्या सर्वभाषानुयातया । सग्रामरागया वाचा देशनां विदधे विभुः ॥३४०॥ देशनान्ते जिनपतिं नत्वा भूपतिरब्रवीत् । विश्वत्राणोधतोऽसि त्वं नाथ त्रायस्व मामपि ॥३४१ ॥ १ कामवृत्तान्तग्रथितं । २ रतस्य कामक्रीडाया उपज्ञा प्राथम्यमीदृशानि करणानि चित्राणि । ३ प्रातःकालपर्यन्तम् । ४ पतिमार्गानुसारिण्यः ।
मेघरयदीक्षा।
॥१०८॥