________________
त्रिषष्टिशलाकापुरुषचरिते ||१०७॥
पञ्चमं पर्व चतुर्थः सर्गः श्रीशान्तिनाथजिनचरितम् ।
प्रपद्य तावनशनं शुभचित्तौ विपद्य च । उत्पेदाते सुरवरौ मध्ये भुवनवासिनाम् ।।३१३ ।। पौषधं पारयित्वा तं राजा मेघरथोऽपि हि । यथावत्पालयन्नवी तस्थौ न्याय इवांगवान् ।।३१४ ।। कपोतश्येनवृत्तान्तमन्यदानुस्मरन्नृपः । परं वैराग्यमापेदे बीजं प्रशमशाखिनः ॥३१५ ॥ कृत्वाष्टमतपः सोढुमुपसर्गपरीषहान् । तस्थौ प्रतिमया शैल इव सर्वांगनिश्चलः ।। ३१६ ॥ ईशानेन्द्रस्तदानीं च मध्येशुद्धान्तमासितः । नमो भगवते तुभ्यमिति जल्पन्नमोऽकरोत् ।।३१७ ॥ महिष्यस्तस्य पप्रच्छुः कस्मै स्वामिन्नमस्क्रिया । त्वया जगन्नमस्येन विदधेऽत्यन्तभक्तितः ।। ३१८ ॥ ईशानेन्द्रः शशंसैवमर्हद्धनरथात्मजः । नगर्यां पुण्डरीकिण्यां सरस्यां पुण्डरीकवत् ।।३१९ ॥ अयं मेघरथो नाम कृताष्टमतपोनृपः । विशुद्धध्यानमापन्नो महाप्रतिमया स्थितः ।। ३२० ।। भावी तीर्थकरश्चैष भरतक्षेत्रमण्डनम् । दृष्ट्वा तदेनमेतस्मै नमोऽकार्षमिह स्थितः ।। ३२१ ।। ध्यानादस्मादमुं धीरं न हि चालयितुं क्षमाः । सुरासुरगणाः सेन्द्रा अपि मादयस्तु के ।। ३२२ ।। ईशानेन्द्रमहिष्यौ च सुरूपा चातिरूपिका । असहिष्णू प्रशंसां तां रोज्ञः क्षोभार्थमीयतुः ।। ३२३ ॥ युवतीस्ते विचक्राते लावण्याम्भस्तरङ्गिणीः । दुर्ग वा जंगमं जैत्रमस्त्रं वा मीनलक्ष्मणः ।। ३२४ ।। विकारैर्विविधैस्तैस्तैः स्मरोज्जीवनभेषजैः । अनुकूलानुपसर्गानुपचक्रमिरेऽथ ताः ॥३२५ ॥ कापि मिथ्या परिक्षिप्तधम्मिल्लोदबन्धनच्छलात् । आविश्चक्रे भुजामूलं स्मरमूलनिकेतनम् ।। ३२६ ।। अर्धनसितसंव्यानं जघनं काप्यदर्शयत् । पिधानपटनिर्यातमिव दर्पणमण्डलम् ।।३२७ ॥ १ अन्तःपुरमध्ये । २ इवार्थे वा शब्दः । ३ जयनशीलम् । ४ कामदेवस्य । ५ घम्मिल्लः केशपाशः । ६ संव्यानं वस्त्रम् ।
ईशानेन्द्रमहिषीकृता परीक्षा ।
॥१०७॥