________________
त्रिषष्टिशलाकापुरुषचरिते
11908 11
अन्यच्च जम्बूद्वीपेऽस्मिन् प्राग्विदेहविभूषणे । सीताया दक्षिणतटे विजये रमणीयके ।। २९९ ।। शुभाख्यायां पुरि नृपोऽभवत्स्तिमितसागरः । तस्येतः पञ्चमभवेऽभूवं पुत्रोऽपराजितः ।। ३०० ॥ तदा हि बलदेवोऽहं वासुदेवोऽपि मेऽनुजः । अनन्तवीर्य इत्यासीदयं दृढरथोऽस्ति यः ।। ३०१ ॥ प्रतिविष्णुस्तदानीं च दमितारिर्महाभुजः । कनकश्रीकन्यकार्थेऽस्माभिर्युधि निपातितः ॥ ३०२ ॥ स भ्रान्त्वा भवकान्तारे जम्बूद्वीपस्य भारते । अष्टापदगिरेर्मूले निकृत्याः सरितस्तटे ।। ३०३ ॥ सोमप्रभाभिधानस्य तापसस्य सुतोऽभवत् । बालं तपश्चरित्वाभूत्सुरूपो नामतः सुरः ।। ३०४ ।। ॥ युग्मम् ॥ सोऽयं सुरोऽस्मत्प्रशंसामीशानेन्द्रेण निर्मिताम् । असहिष्णुः समागच्छद्व्यधाच्चैतत्परीक्षणम् ।। ३०५ ॥ तच्छ्रुत्वा वचनं राज्ञो जातजातिस्मृती उभौ । श्येनपारापतौ सद्यो मूर्छया पेततुर्भुवि ।। ३०६ ॥ राजलोककृतैस्तालवृतानिलजलोक्षणैः । भूयोऽपि संज्ञां लेभाते तौ प्रसुप्तोत्थिताविव ॥ ३०७ ॥ तौ स्ववाचोचतुर्भूपं साध्वावां ज्ञापितौ त्वया । प्राग्जन्मदुः कृतं स्वामिन्नीदृग्योनिनिबन्धनम् ॥ ३०८ ॥ स्वामिन् युद्ध्वा तदावाभ्यां रत्नं नाम न केवलम् । अतिलोभाभिभूताभ्यां मर्त्यजन्मापि हारितम् ॥ ३०९ ॥ इदानीं नारकं जन्माभवन्निकटमावयोः । निषिद्धावन्धवत् कूपात् परमावां ततस्त्वया ॥ ३१० ।। अतः परमपि स्वामिन्नुन्मार्गाद्रक्ष रक्ष नौ । सन्मार्गमादिश शुभस्थानं येन लभावहे ।। ३११ ॥ तयोश्च योग्यतां ज्ञात्वावधिज्ञानोर्मिवारिधिः । समादिदेशानशनं कालप्राप्तं महीपतिः ॥ ३१२ ॥
१ इतोऽस्माद्भवात् पूर्वं पञ्चमे भवे । २ उक्षणं सेचनम् । ३ नारकात् ।
Hettia
पञ्चमं पर्व चतुर्थः
श्री शान्तिनाथ जनचरितम् ।
पारापतवृत्तान्तः ।
।। १०६ ।।