________________
त्रिषष्टिशलाकापुरुषचरिते ||१०५॥
पञ्चमं पर्व चतुर्थः सर्गः श्रीशान्तिनाथजिनचरितम् ।
सभायां वर्णयामास त्वामीशानदिवस्पतिः । अहं त्वसहमानस्तत्त्वत्परीक्षार्थमागमम् ।। २८४ ॥ प्राग्जन्मवैरायुद्धायोपस्थितौ पक्षिणाविमौ । अपश्यं चाध्यतिष्ठं चाकार्ष चैतत्सहस्व तत् ।। २८५ ।। इत्युदित्वा नृपं कृत्वा सज्ज देवो दिवं ययौ । सामन्ताद्याश्च राजानं पप्रच्छुरिति विस्मयात् ।। २८६ ।। श्येनपारापतावेतौ कीदृशौ पूर्वजन्मनि । किंतु वानयोर्वैरं देवोऽयं प्राग्भवे च कः ॥ २८७ ।। राजाप्याख्यज्जम्बूद्वीपैरवतक्षेत्रमण्डनम् । पद्मिनीखण्डमित्यस्ति पुरं श्रीपद्मखण्डवत् ।।२८८ ।। तत्र सागरदत्तोऽभूतु संपदा सागरोपमः । भार्या विजयसेनेति तस्य चासीदनिन्दिता ।। २८९ ।। संजज्ञाते तयोः पुत्रौ नामतो धननन्दनौ । यौवनं च प्रपेदाते वर्धमानौ क्रमेण तौ ।।२९० ॥ क्रीडाभिर्विविधाभिस्तौ विहरन्तावुभावपि । गमयामासतुः कालं पितृऋद्धिसमुद्धतौ ।।२९१ ।। अन्यदा सागरदत्तं तौ प्रणम्यैवमूचतुः । देशान्तरे वणिज्यार्थमावां तात समादिश ।। २९२ ।। पित्रापि समनुज्ञाते मुदितेन तदैव तौ । सूनोः पुरुषकारो हि हर्षाय प्रथमं पितुः ।। २९३ ॥ आदाय विविधं भाण्डं तौ सार्थेन प्रचेलतुः । प्रापतुश्च क्रमान्नागपुर नाम महापुरम् ।। २९४ ।। तत्र व्यवहरन्तौ तौ श्वानौ भक्ष्यमिवैककम् । किञ्चिदेकं महामूल्यं महारत्नमवापतुः ।। २९५ ।। तौ च शङ्खनदीतीरे तस्य रत्नस्य हेतुना । युयुधाते मिथः क्रुद्धौ दुर्दान्तौ वृषभाविव ॥२९६ ।। युध्यमानौ पेततुस्तावगाधे तन्महाहदे । विपेदाते च सद्योऽपि लोभः कस्य न मृत्यवे ।।२९७ ।। विपद्य तावुभौ बन्धू उत्पेदाते इमौ खगौ । प्राग्जन्मवैरादेवं च वैरायेते इहापि हि ॥२९८ ॥ १ को हेतुर्यस्य तद्वैरविशेषणम् ।
श्येनपारापतवृत्तान्तः ।
।। १०५ ॥