________________
त्रिषष्टिशलाकापुरुषचरिते ।।१०४॥
पञ्चमं पर्व चतुर्थः सर्गः श्रीशान्तिनाथजिनचरितम् ।
क्षुत्पीडयार्दितोऽहं तु कं यामि शरणं वद । सर्वेष्वप्यनुकूला हि महान्तः करुणाधनाः ।। २६९ ।। यथैनं त्रायसे राजंस्तथा त्रायस्व मामपि । इमे गच्छन्ति ही प्राणा बुभुक्षाबाधितस्य मे ॥ २७० ।। धर्माधर्मविमर्शो हि सुस्थितानां शरीरिणाम् । धर्मप्रियोऽपि किं पापं न करोति बुभुक्षितः ।। २७१ ।। तद्धर्मवार्तयालं मे भक्ष्यभूतोऽयमर्प्यताम् । क एष धर्मस्त्रातव्य एको मार्यस्तथापरः ।। २७२ ।। तप्तिर्भवेन्महीपाल न च भोज्यान्तरैर्मम । सद्यः स्वयंहतप्राणिस्फुरन्मांसाशनो ह्यहम् ।। २७३ ।। राजाप्येवमवोचत्तं स्वमांसं ते ददाम्यहम् । तुलयित्वा कपोतेन सुहितीभव मा मृथाः ।। २७४ ।। आमेत्युक्तवति श्येने तुलायामेकतो नृपः । कपोतं निदधेऽन्यत्र छित्वा छित्वा स्वमामिषम् ।। २७५ ॥ उत्कृत्योत्कृत्य मांसं स्वं राजा:प्सीद्यथा यथा । तथा तथा कपोतः स भारेण ववृधेतराम् ।। २७६ ।। भारेण वर्धमानं तं कपोतं प्रेक्ष्य भूपतिः । स्वयमेवाध्यारुरोह तुलामतुलसाहसः ।। २७७ ॥ तुलाधिरूढं राजानं प्रेक्ष्य हाहारवाकुलः । सर्वोऽपि संशयतुलामारुरोह परिच्छदः ।। २७८ ॥ सामन्तामात्यमुख्याश्चाभ्यधुरेवं महीपतिम् । एतदस्मदभाग्येन किमारब्धं त्वया प्रभो ।। २७९ ॥ अनेन हि शरीरेण त्रातव्या सकला मही । एकस्य पक्षिमात्रस्य त्राणे त्यजसि तत्कथम् ।। २८०॥ किं च कोऽप्येष मायावी त्रिदशो दानवोऽथवा । न हीदृक् पक्षिमात्रस्य भारः संभवति क्वचित् ।।२८१ ॥ जगदुर्यावदेवं ते तावदाविरभूतु पुरः । किरीटी कुण्डली स्रग्वी तेजोराशिरिवामरः ।। २८२ ॥ नृदेवं देव इत्यूचे त्वमेकः पुरुषेष्वसि । न चाल्यसे पौरुषाद्यत् स्वस्थानादिव मन्दरः ।। २८३ ॥ १ भोज्यरूपः । तृप्तो भव ।
श्येनपारापतवृत्तान्तः ।
।। १०४ ॥