________________
त्रिषष्टिशलाका
पुरुषचरिते 11903 11
तस्योत्सङ्गे तदानीं च संजातभयवेपथुः । पारापतः पपातैको मुमूर्षुरिव दीनदृक् ।। २५५ ।। अभयं याचमानं तं खगं मानुषभाषया । मा स्म भैषीर्मा स्म भैषीरित्यभाषिष्ट भूपतिः ।। २५६ ॥ एवमाभाषितस्तस्थौ सुस्थः पारापतस्ततः । बालः पितुरिवोत्सङ्गे राज्ञः कारुण्यवारिधेः ।। २५७ ॥ भक्ष्यं ममेदं मुञ्चाशु राजन्निति वदन्नथ । तस्यानुमार्गमेवागाच्छ्येनोऽहेरिव पक्षिराट् ॥ २५८ ॥ श्येनमूचे नृपोऽप्येवं नार्पयिष्माम्यमुं तव । क्षत्रियाणां न धर्मोऽयं शरणार्थी यदर्प्यते ।। २५९ ।। अपरं च तथापीदं युज्यते न हि धीमतः । परप्राणापहारेण स्वप्राणपरिपोषणम् ।। २६० ।। उत्खन्यमाने पिच्छेऽपि यथा ते भवति व्यथा । अन्यस्यापि भवत्येवं मार्यमाणस्य का कथा ।। २६१ ।। जग्धेनाप्यमुना तृप्तिर्भाविनी क्षणमेव ते । सर्वजन्मापहारस्तु पक्षिणोऽस्य भविष्यति ।। २६२ ।। पञ्चेन्द्रियप्राणिवधात्तन्मांसस्य च भक्षणात् । नरके जन्तवो यान्ति सहन्ते दुःसहां व्यथाम् ॥ २६३ ॥ परत्रात्यन्तदुःखाय क्षणमत्र सुखाय च । विवेकवान् कथं हन्यात् प्राणिनं क्षुधितोऽपि हि ।। २६४ ॥ अपरेणापि भोज्येन क्षुत्पीडा हंत शाम्यति । पित्ताग्निः शर्कराशम्यः पयसा किं न शाम्यति ।। २६५ ।। न च प्राणिवधप्राप्तनरकप्रभवा व्यथाः । केनापि हि प्रकारेण शाम्यन्ति सहनं विना ॥ २६६ ॥ ततः प्राणिवधं मुञ्च धर्ममेकं समाचर । भवे भवे येन सुखं प्राप्नोषि त्वमसंशयम् ॥ २६७ ॥ मनुष्यभाषया श्येनोऽप्यभाषत महीपतिम् । भवन्तं मद्भयादेष कपोतः शरणं ययौ ।। २६८ ।।
१ मर्तुमिच्छुः । २ पक्षिविशेषः “बाज" इति भाषायाम् । ३ गरुडः । ४ खादितेन । ५ शर्करया शम्यते यः पित्ताग्निः स दुग्धेनापि शम्य इत्यर्थः । ६ विना भोगम् ।
पञ्चमं पर्व
चतुर्थः सर्गः
श्री शान्तिनाथजिन
चरितम् ।
श्येन
पारापतवृत्तान्तः ।
।। १०३ ॥