________________
त्रिषष्टिशलाका
पुरुषचरिते
॥१०२॥
तथेति प्रतिपद्योभौ गत्वा स्वौकसि चक्रतुः । द्वे त्रिरात्रे चतुर्थानि द्वात्रिंशदिति तत्तपः ।। २४० ।। पारणस्य च समये द्वारे प्रक्षिप्य चक्षुषी । गवेषयामासतुस्तौ कञ्चिदप्यतिथिं मुनिम् ।। २४१ ।। साधुं धृतिधरं नाम प्रविशन्तमपश्यताम् । प्रत्यलाभयतां चोभौ भक्त्या भक्तोदकादिना ।। २४२ ॥ अन्यदा विहरंस्तत्र सर्वगुप्तमुनिः पुनः । स आजगाम तत्पार्श्वे धर्मं शुश्रुवतुश्च तौ ॥ २४३ ॥ आददाते परिव्रज्यां सर्वगुप्तमुनेः पुरः । फलं मानुषकल्पद्रोस्तौ विवेकपरायणौ ।। २४४ ॥ ततश्च राज्यगुप्तर्षिर्विदधे गुर्वनुज्ञया । आचामाम्लवर्धमानाभिधानं दुस्तपं तपः ॥ २४५ ॥ अन्ते चानशनं चक्रे चतुःशरणमाश्रितः । विपद्य ब्रह्मलोकेऽभूद्दशसागरजीवितः ।। २४६ ।। ब्रह्मलोकात् परिच्युत्य विद्युद्रथनृपात्मजः । अयं सिंहरथो नाम जज्ञे विद्याधरेश्वरः ।। २४७ ॥ शङ्खिका सापि तद्भार्या विधाय विविधं तपः । ब्रह्मलोके सुरो जज्ञे च्युत्वासावस्य पल्यभूत् ॥ २४८ ॥ इतः स्वनगरं गत्वा पुत्रं राज्ये विधाय च । पादान्ते मत्पितुर्दीक्षामयमादास्यते सुधीः ।। २४९ ॥ तपोध्यानादिभिः कृत्वा कर्माष्टकपरिक्षयम् । उत्पन्नकेवलज्ञानः सिद्धिमेष व्रजिष्यति ।। २५० ।। श्रुत्वा तद्वचनं मेघरथं नत्वा च भक्तितः । गत्वा च स्वपुरे पुत्रं राज्ये सिंहरथो न्यधात् ।। २५१ ।। श्रीमद्धनरथस्वामिपादांते दांतमानसः । परिव्रज्य चरित्वा च तपः सिद्धिमियाय सः ।। २५२ ॥ राजा मेघरथ देवरमणोद्यानतस्ततः । प्राविशत् सपरीवारो नगरीं पुण्डरीकिणीम् ॥ २५३ ॥ अपरेद्युर्मेघरथः पौषधौकसि पौषधी । धर्ममाख्यातुमारेभे जिनाख्यातं विपश्चिताम् ॥ २५४ ॥ १ शुद्धमानसः । २ विदुषाम् ।
पञ्चमं पर्व चतुर्थः
सर्गः श्री शान्तिनाथजिनचरितम् ।
श्येन
पारापतवृत्तान्तः ।
।। १०२ ।।