________________
त्रिषष्टिशलाका
पुरुषचरिते ॥१०१॥
गति स्खलिता केनेत्यथ ज्ञातुमधो दृशम् । न्यधाद्यावदसौ तावदद्राक्षीन्मामिह स्थितम् ।। २२५ ।। सकोपाटोपमेषोऽथ मामुत्क्षेप्तुमुपासरत् । आक्रम्यत मया चायं वामो वामेन पाणिना ।। २२६ ।। ररास विरसं चैष सिंहाक्रान्त इव द्विपः । तद्भार्या सपरीवारा प्रपन्ना शरणं च माम् ।। २२७ ॥ ततो मयामुच्यतायं मुक्तश्च पुरतो मम । विकृत्य नाना रूपाणि संगीतमकरोदिदम् ।। २२८ ।। भूयोऽपि प्रियमित्रोचे प्रिय पूर्वभवेऽमुना । किं कृतं कर्म येनैषा ऋद्धिरस्य महीयसी ।। २२९ ।। आख्यन्मेघरथोऽप्येवं पुष्करार्धस्य भारते । पूर्वस्मिन् विद्यते सखपुरं नाम महापुरम् ॥ २३० ॥ राज्यगुप्तोऽभिधानेन तत्रासीत् कुलपुत्रकः । दुःस्थः सदा परकर्मकरणोत्पन्नभोजनः ।। २३१ ॥ शङ्खिका नाम तस्यानुरक्ता भक्ता च पल्यभूत् । उभावपि हि चक्राते कर्माणि परवेश्मसु ।। २३२ ।। अन्येद्युश्च फलार्थं द्वावपि नानाद्रुमाकुलम् । संभूय जग्मतुः सङ्घगिरिं नाम महागिरिम् ।। २३३ ।। तस्मिन् वनफलार्थं तौ पर्यटन्तावपश्यताम् । कुर्वाणं देशनां सर्वगुप्तं नाम महामुनिम् ॥ २३४ ॥ विद्याधरसभामध्यमध्यासीनमुपेत्य तम् । तौ नमश्चक्रतुर्भक्त्या पुरतश्च निषेदतुः ॥ २३५ ॥ तयोर्विशेषतो धर्मं दिदेश स मुनीश्वरः । दुःस्थितेषु हि महतां वात्सल्यमतिरिच्यते ॥ २३६ ॥ शान्ते महर्षि तं तौ प्रणम्यैवमूचतुः । पापयोरपि नौ पुण्यमेतद्दृष्टोऽसि यत्प्रभो ॥ २३७ ॥ स्वयं विश्वजनीनोऽसि तथाप्यार्तैस्त्वमर्थ्यसे । अस्मदर्थं तपः किंचिज्जगदर्ह्य समादिश ॥ २३८ ॥ तद्योग्यतानुसारेण सर्वगुप्तो महामुनिः । द्वात्रिंशत्कल्याणकाख्यमादिदेश तपस्तयोः ॥ २३९ ॥
१ अधमः । २ दुरवस्थः । ३ विश्वहितः । ४ जगत्पूज्य ।
पञ्चमं पर्व
चतुर्थः सर्गः
श्री शान्तिनाथजिन
चरितम् ।
भूतसम्बन्धिनी कथा ।
।। १०१ ।।