________________
त्रिषष्टि
शलाका
पुरुषचरिते
11900 ||
यौवराज्ये निजे राजा तं च विद्युद्रथो न्यधात् । पुत्रे हि कवचहरे युक्तमेतन्महीभुजाम् ॥ २११ ॥ लीलोपवनवाप्यादिस्थानेषु ललनासखः । वने सिंह इव स्वैरं रेमे सिंहरथः सुखम् ॥ २१२ ॥ विद्युद्रथोऽपरेद्युश्च विद्युल्लोलस्वभावकम् । संसारे सकलं ज्ञात्वा परं वैराग्यमासदत् ।। २१३ ।। राज्ये सिंहरथं न्यस्य सद्यो विद्युद्रथो नृपः । सर्वसावद्यविरतिं गुरुपादान्तिकेऽग्रहीत् ॥ २१४ ॥ संवेगातिशयापन्नः संयमैर्नियमैरपि । ध्यानेन च विधायाष्टकर्मक्षयमगाच्छ्विम् ॥ २१५ ॥ राजा सिंहरथोऽप्युद्यत्प्रतापस्तपनोपमः । स विद्याधरचक्रित्वमाससाद दुरासदम् ।। २१६ ।। निशायां सोऽन्यदा दध्यौ विनिद्र इव योगवित् । अरण्ये मालतीपुष्पस्येव जन्म मुधा मम ॥ २१७ ॥ अर्हतः समवसृतान् केवलज्ञानिनः प्रभून् । भवाम्भोधिमहापोतान्नापश्यं तान्न चार्चयम् ।। २१८ ।। पावयामि तदात्मानं दृष्ट्वा साक्षाज्जिनेश्वरम् । तद्दर्शनं ह्येकदापि सुस्वप्न इव कामधुक् ।। २१९ ॥ इत्थं विचिन्त्य स द्वीपे धातकीखण्डनामनि । पश्चिमेषु विदेहेषु सीतोदोत्तररोधसि ।। २२० ॥ सूत्राभिधाने विजये पुरे खड्गपुराभिधे । गत्वार्हन्तं समं पल्या ददर्शामितवाहनम् ।। २२१ ॥
॥ युग्मम् ॥ प्रणम्य भगवन्तं तं सोऽश्रौषीन्मेदिनीपतिः । भवाम्भोधितरीकल्पामनल्पां धर्मदेशनाम् ॥ २२२ ॥ आकर्ण्य देशनां तां च दुःखानलजलच्छटाम् । नत्वा चार्हन्तमचलत् स निजां नगरीं प्रति ॥ २२३ ॥ अत्रोर्ध्वं गच्छतश्चास्य बभूव स्खलनं गतेः । दृढवेत्रवनाकीर्णे पोतस्येव पयोनिधौ ।। २२४ ॥ १ ललनासहचरः । २ सूर्योपमः । ३ भवसागरे नौसदृशीम् ।
पञ्चमं पर्व
चतुर्थः
सर्गः
श्री शान्तिनाथजिन
चरितम् ।
भूतसम्ब न्धिनी
कथा ।
।। १०० ।।