________________
त्रिषष्टि
शलाका
पुरुष
॥९९॥
भुजङ्गभूषणाः केचित्केचिन्नकुलभूषणाः । द्वीपित्वग्वसनाः केऽपि व्याघ्रत्वग्वाससोऽपरे ।। १९८ ।। भस्माङ्गरागाः केचिच्च केचिद्रक्तविलेपनाः । उलूकोत्तंसिनः केचित्केचिद्गृध्राऽवतंसिनः ॥ १९९ ॥ आखुखग्मालिनः केचित्केचित् सरटमौलिनः । मुण्डमालाधराः केऽपि केऽपि कङ्कालपाणयः ॥ २०० ॥ कृताट्टहासाः केचिच्च केचित्तुमुलकारिणः । हेषाविधायिनः केचित्केचिद्दृहितकारिणः ।। २०१ ।। करास्फोटकराः केऽपि केऽपि तालप्रदायिनः । मुखातोद्यकराः केऽपि कक्षावाद्यकुतोऽपरे ।। २०२ ।। दलयन्त इव क्षोणि स्फोटयन्त इवाम्बरम् । चारीप्रचारैरुद्दण्डं प्रारभन्ताथ ताण्डवम् ॥ २०३ ॥ ॥ अष्टभिः कुलकम् ॥
एवं नरेन्द्रतोषाय यावत्ते ताण्डवं व्यधुः । प्रादुरासीत्तावदेकं विमानवरमम्बरे । २०४ ।। रत्या मनोभव इव युवत्या युत एकया । अन्तस्तस्य पुमानेको ददृशे सुन्दराकृतिः ।। २०५ ।। प्रियमित्रा ततो देवी जगादैवं महीपतिम् । कोऽयं केयं कुतो हेतोरिह चापततः प्रभो ।। २०६ ।। अथ मेघरथोऽशंसज्जम्बूद्वीपेऽत्र भारते । वैताढ्यस्योत्तरश्रेण्यामलकेत्यस्ति पूर्वरा ॥ २०७ ॥ तत्र विद्युद्रथो नाम विद्याधरनरेश्वरः । तस्य मानसवेगेति प्रिया चासीत् प्रियंवदा ॥ २०८ ॥ सिंहरथ्यरथस्वप्नात् कृतसिंहरथाभिधः । तस्यां तस्याभवत्सूनुर्विक्रमोत्फुल्लदोर्द्रुमः ।। २०९ ॥ कन्यां वेगवतीं नाम प्रकृष्टकुलसंभवाम् । स्वानुरूपामुपायंस्त स चन्द्र इव रोहिणीम् ।। २१० ॥
१ चित्रकचर्मवस्त्राः । २ रुधिरविलेपनाः । ३ कृकलासमालावन्तः । ४ कङ्कालमस्थिपञ्जरः । ५ मुखमेव वादित्रं तस्य कराः । ६ सिंहा एव रथ्यास्तद्युक्तो रथस्तस्य स्वप्नात् ।
*
पञ्चमं पर्व चतुर्थः सर्गः श्री शान्तिनाथजिनचरितम् ।
1124
भूतसम्बन्धिनी कथा ।
॥ ९९ ॥