________________
पञ्चमं पर्व चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते
॥९८॥
सर्गः श्रीशान्तिनाथजिनचरितम् ।
उदधिलवणोदोऽयं नक्रचक्रनिकेतनम् । अयं च धातकीखण्डद्वीपः कालोदवेष्टितः ।। १८४ ।। क्षुद्रमेरुगिरी चैतावर्हत्स्नात्रशिलाङ्कित्तौ । ईष्वाकारौ गिरी चेतौ शाश्वतार्हत्पवित्रितौ ॥ १८५ ॥ अदोऽर्धपुष्करद्वीपं धातकीखण्डसन्निभम् । मानुषोत्तरशैलोऽयं मर्त्यभून ह्यतः परम् ।। १८६ ॥ इत्थमाख्यानपूर्वं तौ दर्शयित्वा वसुन्धराम् । आनिन्यतुर्मेघरथं नगरी पुण्डरीकिणीम् ।। १८७ ॥ राजौकसि कुमारं तं मुक्त्वा च प्रणिपत्य च । विधाय रत्नवृष्टिं च जग्मतुर्निजमाश्रयम् ॥ १८८ ॥ अथैकदा घनरथोऽभ्येत्य लोकान्तिकामरैः । तीर्थं प्रवर्तयेत्युच्चैः स्वयं बुद्धोऽपि बोधितः ॥ १८९ ॥ राज्ये मेघरथं यौवराज्ये दृढरथं तथा । न्यस्य दत्त्वाब्दिकं दानं दीक्षां घनरथोऽग्रहीत् ।। १९० ॥ उत्पन्नकेवलज्ञानो भविकान् प्रतिबोधयन् । तीर्थंकरो घनरथो विजहार वसुन्धराम् ॥ १९१ ॥ नरेन्द्रवृन्दमुकुटोघृष्टपादाम्बुजासनः । राजा मेघरथस्तूर्वीमशादृढरथान्वितः ।। १९२ ।। अन्यदा देवरमणनाम्न्युद्याने रिम्सया । ययौ जनोपरोधेन राजा मेघरथः स्वयम् ।। १९३ ॥ तत्राशोकतले सार्धं प्रियया प्रियमित्रया । स कारयितुमारेभे संगीतमविगीतकम् ।। १९४ ।। अत्रान्तरे तस्य पुरः प्रादुरासन्महीपतेः । भूताः सहस्रशोऽपूर्वसंगीतकचिकीर्षया ॥ १९५ ॥ विशालैरुदरैः केऽपि लम्बोदरसहोदराः । क्षामैस्तैरेव केचिच्च पातालनीव बिभ्रतः ।। १९६ ।। प्रलम्बैः कर्कशैः पादैस्तालारूढा इवापरे । केचिदप्यायतैर्दोभिर्द्वमाः साजगरा इव ।। १९७ ॥ १ नक्राणां मकराणां चक्रस्य समूहस्य स्थानम् । २ धनुर्वदाकारौ । ३ सांवत्सरिकम् । ४ रन्तुमिच्छया । ५ लोकस्याग्रहेण । ६ सुन्दरम् । ७ कृशैः । ८ तालवृक्षारूढाः ।
धनरथस्य दीक्षा।
॥९८॥