________________
त्रिषष्टिशलाका
पञ्चमं पर्व
चतुर्थः
पुरुषचरिते
॥९७॥
सर्गः श्रीशान्तिनाथजिनचरितम् ।
प्राग्जन्मावधिना ज्ञात्वा तौ विमानं विकृत्य च । उपेयतुर्मेघरथं पूर्वजन्मोपकारिणम् ॥ १७० ॥ भक्तिभाजौ मेघरथं तौ प्रणम्यैवमूचतुः । अद्यैवावां त्वत्प्रसादादभूव व्यन्तरेश्वरौ ।। १७१ ।। माविभौ सैरिभौ च मेषौ तदनु कुर्कुटौ । एतत्प्रेकर्षजन्मानावभूवावां स्वकर्मभिः ।। १७२ ।। कुर्कुटत्वे त्वहरहनिःसङ्ख्यकृमिभोजनौ । आप्स्यावः कां गति नाथाभविष्यः शरणं न चेत् ।। १७३ ।। प्रसीदानुग्रहाणैतद्विमानमधिरुह्य च । विश्वां विश्वंभरां पश्य ज्ञानेन ज्ञातपूळपि ।। १७४ ।। इत्थमभ्यर्थितस्ताभ्यां दाक्षिण्यक्षीरसागरः । तदारोहन्मेघरथो विमानं सपरिच्छदः ।। १७५ ।। उत्पपात विमानं तच्चचाल च मनोगति । अङ्गल्या दर्शयन्तौ तौ दृश्यान्येनमशंसताम् ।। १७६ ।। वैडूर्यमय्यसौ भाभिर्दूर्वाकरितदिङ्मुखा । चत्वारिंशद्योजनोच्चा चूला मेरुमहागिरेः ॥ १७७ ।। अस्याः प्रतिदिशं चार्धचन्द्राकाराः शिला इमाः । अर्हज्जन्माभिषेकाम्भःपुण्याः सिंहासनाङ्कित्ताः ॥ १७८ ।। इमान्यायतनान्युच्चैः स्वामिनां शाश्वतार्हताम् । तदर्चाचरितार्थद्रुपुष्पमेतच्च पाण्डकम् ।। १७९ ।। अमी वर्षधराः शैलाः षडेषु षडमी हृदाः । चतुर्दशमहासिन्धुसीमन्तितमहीतलाः ॥ १८०॥ : अद्रयोऽमी च वैताढ्या आढ्या विद्याधरद्धिभिः । स्वस्वक्षेत्रार्धमर्यादाशिलाभित्तिसहोदराः ।।१८१ ।। अमीषामपि कूटेषु सिद्धचैत्यान्यमूनि च । प्रतिमाभिः सनाथानि श्रीमतां शाश्वतार्हताम् ॥ १८२ ।। इयं च जगती जम्बूद्वीपस्य वलयाकृतिः । उत्तुङ्गजालकटकैर्विद्याधरविलासभूः ।। १८३ ॥ १ गजौ । २ महिषौ । ३ एतद्व्यन्तरेश्वररूपं प्रकृष्टं जन्म ययोस्तौ । ४ मनोवद्गमनं यस्य तत् । ५ दृश्यवस्तूनि । ६ सहितानि । ७ दुर्गः ।
मेघरथराज्याभिषेकः ।
॥९७ ।।