________________
पञ्चमं पर्व
चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते
॥१६॥
सर्गः श्रीशान्तिनाथजिनचरितम् ।
पूर्णे च समये सूनुं सुषुवे वज्रमालिनी । वजिप्रभृतयो जन्माभिषेकं तस्य च व्यधुः ॥१५५ ॥ नामा घनरथः सोऽद्याप्यवनी पाति तीर्थकृत् । विजयवैजयन्तौ तु जातौ विद्याधरौ युवाम् ॥ १५६ ॥ इति पूर्वभवान् श्रुत्वा प्रीतौ नत्वा च तं मुनिम् । प्राग्जन्मपितरं भक्त्या त्वां द्रष्टुं ताविहागतौ ॥१५७ ।। प्रचक्रतुः सङ्क्रमणमनयोस्ताम्रचूडयोः । तौ तु त्वदर्शनोपायभूतं स्वामिन् कुतूहलात् ॥१५८ ॥ इतश्च गत्वैतौ भोगवर्धनस्यान्तिके गुरोः । प्रव्रज्य क्षीणकर्माणौ प्राप्स्यतः पदमव्ययम् ॥१५९ ॥ श्रुत्वेति प्रकटीभूय पूर्ववत् सुतमानिनौ । विद्याधरौ घनरथं तौ नत्वा जग्मतुर्गृहम् ॥ १६०॥ एतत्तु कुर्कुटौ श्रुत्वा तावचिन्तयतामिति । अहो ईदृगसारोऽयं संसारः क्लेशकारणम् ।। १६१ ॥ नृजन्मनि वणिग्भ्यामप्यावाभ्यां किमुपार्जितम् । दूरेऽस्त्वन्ययेन भूयो नृजन्मापि हि दुर्लभम् ॥ १६२ ।। इदानीं ग्रासलुब्धाभ्यां लुब्धकाभ्यामिवान्वहम् । तैस्तैरुपायैरावाभ्यां वञ्चिताः प्राणिनो ह हा ॥ १६३ ॥ वञ्चयित्वा चिरं लोकं कूटमानतुलादिभिः । असंतुष्टौ मिथोऽप्यावां धिक् तदा कलहायितौ ॥१६४ ॥ आर्तध्यानं प्रपन्नौ च निहत्यावां मिथो मृतौ । प्राप्तवन्तौ तत्फलं च तिर्यग्योनिमनेकशः ॥ १६५ ॥ विमृश्यैवं नृपं नत्वा प्रोचतुस्तौ स्वभाषया । देवादिश किमद्यावां कुर्वह हितमात्मनः ॥१६६ ॥ विज्ञाय चावधिज्ञानाद्राजा घनरथोऽवदत् । अर्हन् देवो गुरुः साधुर्धर्मो जीवदयास्तु वाम् ।। १६७ ॥ एवं घनरथेनोक्तं कुर्कुटौ प्रतिपद्य तौ । प्रपेदाते अनशनं विपेदाते उभावपि ॥१६८ ॥ मृत्वाभूतां भूतरत्नामहाटव्यां महर्द्धिको । ताम्रचूलस्वर्णचूलसंज्ञौ तौ भूतनायकौ ।। १६९ ॥ १ इन्द्रादयः । २ तव दर्शने उपायभूतमिति संक्रमणविशेषणम् । ३ मृगवघाजीवी लुब्धकः । ४ कलिं कृतवन्तौ । ५ म्रियेते स्म ।
FARHARASHRSHABHASHARE
मेघरथराज्याभिषेकः ।
॥ ९६ ॥