________________
त्रिषष्टि
शलाकापुरुषचरिते
॥९५॥
प्रवृत्तिस्ते॒ परार्थैव स्वामिन् विज्ञप्यसे ततः । प्रतीक्षस्व क्षणं विश्वप्रतीक्ष्य करुणानिधे ॥ १४१ ॥ विश्वं विश्वंभराभारं निधाय तनये निजे । यावदायामि दीक्षायै त्वत्पादकमलान्तिके ॥ १४२ ॥
॥ युग्मम् ॥ नैव प्रमादिना भाव्यमित्युक्तः स्वामिना नृपः । गृहे गत्वा सुतावेवमभाषिष्ट पृथक् पृथक् ।। १४३ ॥ हे वत्स विजयादत्स्व राज्यमेतत् क्रमागतम् । यौवराज्यं वैजयन्त त्वमस्य परिपालय ।। १४४ ।। अहं तु प्रव्रजिष्यामि व्रजिष्यामि जिनान्तिके । आव्रजेयं न हि यथा भूयोऽपि भवगह्वरे ।। १४५ ।। तावपीत्यूचतुस्तात भवभीतो यथा भवान् । भवभीतौ तथैवावां त्वदीयौ ननु नन्दनौ ।। १४६ ॥ अप्यावां प्रव्रजिष्यावः प्रव्रज्याया ह्युभे फले । इह त्वत्पादशुश्रूषा मोक्षप्राप्तिः परत्र च ।। १४७ ।। साधु वत्साविति वदन् वदान्यो मेदिनीपतिः । ददौ कस्मैचिदन्यस्मै राज्यं प्राज्यमपि स्वयम् ॥ १४८ ॥ ताभ्यां सह तनूजाभ्यां गत्वानन्तजिनान्तिके । प्राव्राजीदभयघोषः श्रीमत्सङ्घस्य पश्यतः ।। १४९ ॥ त्रयोऽपि तेपिरेऽत्युग्रं ते तपो भूपतिस्तु सः । विंशत्या स्थानकैरर्हन्नामगोत्रमुपार्जयत् ॥ १५० ॥ त्रयोऽपि काले ते कालं कृत्वा प्रययुरच्युते । देवा बभूवुर्द्वाविंशत्यर्णवोपमजीविताः ।। १५१ ।। इतश्च जम्बूद्वीपेऽस्मिन् प्राग्विदेहविभूषणे । विजये पुष्कलावत्यामस्ति पूः पुण्डरीकिणी ।। १५२ ।। तस्यां हेमाङ्गो नाम बभूव वसुधाधवः । शचीव वज्रिणो वज्रमालिनी तस्य च प्रिया ।। १५३ ।। च्युत्वा ततोऽभयघोषस्तस्याः कुक्षाववातरत् । चतुर्दशमहास्वप्नसूचितार्हतवैभवः ।। १५४ ।। १ विश्वस्य प्रतीक्ष्योऽर्यस्तत्सम्बोधनम् । २ समग्रम् । ३ पृथ्वीभारम् । ४ आगच्छेयम् ।
1
पञ्चमं पर्व
चतुर्थः
सर्गः
श्रीशान्ति
नाथ जन
चरितम् ।
मेघरथपूर्वभव
कथनम् ।
।। ९५ ।।