________________
त्रिषष्टिशलाकापुरुषचरिते
॥१४॥
पञ्चमं पर्व चतुर्थः सर्गः श्रीशान्तिनाथजिनचरितम् ।
इदानीमनुभवितुं मधुलक्ष्मी नवागमाम् । यथोचितपरीवारा गच्छामः प्राणवल्लभ ॥१२६ ।। अत्रान्तरे च पृथिवीसेना नृपमुपास्थित । दधाना कोटिमूल्यानि युक्तिपुष्पाणि पाणिना ।। १२७ ॥ वीक्ष्यादाय च तान्याशु स्मेराक्षः स क्षितीश्वरः । यथोचितपरीवारो ययौ चिक्रीड तत्र च ॥ १२८ ॥ पृथ्वीसेना त्वनुज्ञाता भ्रमन्ती तत्र चैकतः । ददर्श दन्तमथनं विशिष्टज्ञानिनं मुनिम् ।। १२९ ।। ववन्दे मुदिता तं च मुनि र्निभरभक्तिभाक् । भवनिर्वेदजननी देशनां चाशृणोत्ततः ॥१३० ॥ तत्कालमपि राजानमापृच्छय भवकातरा । प्रव्रज्यां साददे दन्तमथनस्य मुनेः पुरः ॥१३१ ॥ प्रशंसन पृथिवीसेनादेव्याश्चारित्रमद्भुतम् । स्वं धामाभयघोषोऽपि जगाम जगतीपतिः ॥१३२ ॥ अन्येधुरभयघोषः स्वमन्दिरशिरोभुवि । रत्नसिंहासनासीनो विश्रान्त इव भास्करः ।।१३३ ॥ ददर्श तीर्थकृल्लिङ्ग छद्मस्थत्वविहारिणम् । द्वारदेशे प्रविशन्तमनन्तं जिनपुङ्गवम् ॥१३४ ॥
॥युग्मम् ॥ ससंभ्रमं समुत्थाय भोज्यमादाय चोचितम् । उपतस्थे भगवन्तं स प्रणामपुरःसरम् ॥ १३५ ॥ पारयामास भगवानपि तद्दत्तभिक्षया । देवैश्च विदधे तत्र वसुधारादिपञ्चकम् ॥१३६ ॥ कृतपारणकोऽन्यत्र जगाम भगवानपि । छद्मस्था हि जिना नान्यमुनिवत्क्वचिदासते ॥ १३७ ॥ विहरन्नन्यदोत्पन्नकेवलोऽनन्ततीर्थकृत् । एत्य वज्रपुरे तत्र नगरे समवासरत् ॥१३८ ॥ एत्य भक्त्याभयघोषः कृत्वा त्रिश्च प्रदक्षिणाम् । तं ववन्देऽशृणोद्धर्मदेशनां च भवच्छिदम् ।। १३९ ।। देशनान्ते भगवन्तं नत्वा राजैवमब्रवीत् । त्वमत्र भविनां पुण्यैः कल्पद्रुम इवागमः ॥१४० ॥
मेघरथपूर्वभवकथनम् ।
॥९४ ॥