________________
त्रिषष्टिशलाकापुरुषचरिते ॥१३॥
पञ्चमं पर्व चतुर्थः सर्गः श्रीशान्तिनाथजिनचरितम् ।
उद्यौवनावेकदा तौ जग्मतुर्मेरुमूर्धनि । प्रतिमाश्च ववन्दाते श्रीमतां शाश्वतार्हताम् ।।१११ ॥ भ्रमन्तौ कौतुकात्तौ तु तत्र स्वर्णशिलास्थितम् । नन्दने सागरचन्द्र चारणर्षिमपश्यताम् ॥ ११२ ॥ प्रदक्षिणापूर्वकं तौ तं नमश्चक्रतुर्मुनिम् । कृताञ्जली शुश्रुवतुः पुरोभूय च देशनाम् ।। ११३ ॥ देशनान्ते नमस्कृत्य मुनि तावेवमूचतुः । अज्ञानतिमिरार्ताभ्यां दिष्ट्या प्राप्तोऽसि दीपवत् ॥११४ ॥ आवयोः प्राक्तनान सम्यगाख्याहि भगवन् भवान् । सूर्योदय इवान्योपकृत्यै ज्ञानं भवादृशाम् ॥ ११५ ॥ आख्यन्मनिरपि द्वीपे धातकीखण्डनामनि । वर्षे पूर्वरवतेऽस्ति नाना वज्रपुरं पुरम् ॥११६ ॥ तस्मिन्नाभियघोषोऽभयघोषोऽभवन्नृपः । सुवर्णतिलका नाम प्रेयसी तस्य चाभवत् ॥११७ ॥ विजयो वैजयन्तश्च संजज्ञातेऽनयोः सुतौ । क्रमात् कलाकलापं च प्रापतुर्यौवनं च तौ ॥११८ ॥ इतश्च तत्रैरवते पुरे स्वर्णद्रुमेऽभवत् । शोज्वलगुणः शङ्ख इति नाम्न महीपतिः ॥ ११९ ॥ उत्सङ्गस्थितपुष्पस्रक्स्वप्नदर्शनसूचिता । पृथ्वीदेव्यां तस्य पुत्री पृथ्वीसेनेत्यजायत ।। १२० ॥ रूपप्रकर्षवैदग्ध्यविशेषपरिपोषकौ । क्रमेण यौवनकलाकलापावाससाद सा ॥ १२१ ॥ अनुरूपो वरोऽमुष्या अयमेवेति चिन्तयन् । कन्यामभयघोषाय शङ्खराजोऽथ तां ददौ ॥ १२२ ॥ पृथिवीसेनया साधं स पृथ्वीनाथपुङ्गवः । नवोढया तया रेमे रमयेव रमापतिः ॥ १२३ ॥ अपरेधुर्वसन्तौ वसन्तसुमनोधरा । काप्यागाच्चेटिका राज्ञोऽभयघोषस्य सन्निधौ ॥१२४ ॥ तां प्रेक्ष्य स्वर्णतिलका देव्येवं नृपमभ्यधात् । अमण्ड्यत वसन्तेनोद्यानं षडूतुकाभिधम् ॥ १२५ ॥ १ अन्येषामुपकाराय । २ दीनानां प्राणिनामभयं घोषयतीति तथा । ३ वसन्तपुष्पधरा ।
मेघरथपूर्वभवकथनम् ।
।। ९३ ॥