________________
त्रिषष्टिशलाका
पुरुषचरि
॥९२॥
एकदा पर्यटन्तौ तौ पृथग्यूथेन यूथपौ । अन्योऽन्यदर्शनं बिम्बप्रतिबिम्बे इवेयतुः ।। ९६ ।। प्राग्जन्मरोषादुद्रोषादुद्दवानी इवाचलौ । परस्परवधायोभौ सवेगावभ्यधावताम् ।। ९७ ।। चिरं तौ दन्तिनौ कृत्वा दन्तादन्ति कराकरि । जन्मान्तरेऽपि युद्धार्थमिवोभौ युगपन्मृतौ ॥ ९८ ॥ अथास्य जम्बूद्वीपस्य क्षेत्रे भरतनामनि । अयोध्यायां नन्दिमित्रोऽभूद्भूरिमहिषीधनः ।। ९९ ।। तस्यातिवल्लभे यूथेऽभूतां तौ महिषौ वरौ । यौवनं च प्रपेदाते पीनाङ्गौ केलभाविव ।। १०० ।। देवानन्दाकुक्षिभवौ शत्रुञ्जयनृपात्मजौ । धनसेननन्दिषेणौ महिषौ तावपश्यताम् ॥ १०१ ॥ अयोध्याराजपुत्राभ्यामयोध्येतां कुतूहलात् । उभौ तौ महिषौ दृप्तौ कृतान्तमहिषोपमौ ॥ १०२ ॥ चिरं युद्धवा विपेदाते पुर्यां तौ तत्र मेण्ढकौ । नाम्ना कालमहाकालावुत्पेदाते दृढाङ्गकौ ॥ १०३ ॥ दैवादेकत्र मिलितौ प्राग्वैरादभियुध्य तौ । विपद्य कुर्कुटावेतावुत्पन्नौ समविक्रमौ ॥ १०४ ॥ नैकोऽप्येकेन विजितः पुराप्येतौ समौजसौ । इदानीमपि हि प्राग्वदेको नैकेन जेष्यते ॥ १०५ ॥ ऊचे मेघरथः पूर्ववैराविष्टौ न केवलम् । विद्याधराधिष्ठितौ च युध्येते कुर्कुटाविमौ ॥ १०६ ॥ राज्ञा घनरथेनाथोन्नमितैर्केभ्रुवेरितः । कृताञ्जलिर्मेघरथः सविस्तरमदोऽवदत् ॥ १०७ ॥ अस्यैव जम्बूद्वीपस्य क्षेत्रे भरतनामनि । वैताढ्यस्योत्तरश्रेण्यां स्वर्णनामाभिधे पुरे ॥ १०८ ॥ नाम्ना गरुडवेगोऽभूद्राजा गरुडविक्रमः । सधर्मचारिणी तस्य धृतिषेणेति चानघा ।। १०९ ।। स्वोत्सङ्गस्थितचन्द्रार्कस्वप्नदर्शनसूचितौ । सा चन्द्रतिलकसूर्यतिलकौ सुषुवे सुतौ ॥ ११० ॥
१ श्रेष्ठौ महिषौ । २ गजडिम्भाविव । ३ तुल्यबलौ । ४ वक्रीकृतैकभ्रुकुट्या प्रेरितः ।
শশ
पञ्चमं पर्व
चतुर्थः
सर्गः
श्री शान्तिनाथजिनचरितम् ।
कुर्कुट
पूर्वभव
कथनम् ।
॥ ९२ ॥