________________
पञ्चमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
॥११॥
चतुर्थः सर्गः
श्रीशान्तिनाथजिनचरितम् ।
अभूतां वणिजौ तत्र द्वौ मिथो मैत्र्यशालिनौ । एको धनवसुर्नाम दत्तो नामापरः पुनः ।। ८२ ॥ अनिवृत्तधनाशौ तौ तृषितौ चातकाविव । भाण्डेर्नानाविधैर्भूत्वा शकटीशकटादिकम् ।। ८३ ॥ ग्रामाकरपुरद्रोणमुखादिषु सदा युतौ । भ्रमतुर्व्यवहाराय दारिद्रयपितराविव ॥ ८४ ॥ तृषितान् क्षुधितान् श्रान्तान्मन्दान्व्यङ्गान् कृशानपि । शीतालूष्णालुतृष्णालूनतिभाराधिरोपणैः ॥८५ ॥ प्रतोदैर्यष्टिघातैश्च लाङ्कलोन्मोटनैरपि । वाहयामासतुर्गास्तौ परमाधार्मिकाविव ॥ ८६ ॥ क्षुरैस्ततक्षतुः पृष्टान्युच्छूनानि च तो गवाम् । प्राग्वेधे त्रुटिते नासात्वचं विविधतुः पुनः ।। ८७ ॥ कालेऽप्यमुञ्चतां नोक्ष्णो मझ्वीप्सितयियासया । बुभुजाते च गच्छन्तौ विलम्बस्यासही स्वयम् ॥ ८८ ॥ कूटतुलाकूटमानकूटनाणककर्मभिः । कुटार्थकथनैश्चापि तावमोहयतां जनम् ॥ ८९ ॥ अवञ्चयेतां तौ विश्वं गोमायू इव मायिनौ । एकद्रव्याभिलाषाच्च युध्येते स्म परस्परम् ॥९०॥ मिथ्यात्वमोहितमती निर्दयौ पुरुषौ सदा । लोभाघ्रातौ न धर्मस्य तौ वार्तामपि चक्रतुः ॥९१॥ इत्थं प्रपन्नार्तध्यानौ तौ गजायुर्बबन्धतुः । आर्तध्यानस्य हि फलं तिर्यग्योनिषु संभवः ॥ ९२ ॥ अन्यदा श्रीनदीतीर्थे रागद्वेषवशंवदौ । तौ मिथो जातकलहौ युध्वा पञ्चत्वमापतुः ॥ ९३ ॥ तत्रैवैरवते स्वर्णकूलाकूले बभूवतुः । तौ गजौ ताम्रकलशकाञ्चनकलशाभिधौ ।। ९४ ।। क्रमादुद्यौवनौ तौ च सप्तधा प्रक्षरन्मदौ । तटद्रुमांश्च निघ्नन्तौ नदीतीरे विजहतुः ॥९५ ॥ । १ न निवृत्ता धनाशा ययोस्तौ । २ शीतोष्णतृष्णार्तान् । ३ सशोफानि । ४ वृषान् तूर्णमिष्टस्थानं गन्तुमिच्छया न मुमुचतुः । ५ शृगालौ । ६ स्वर्णकूलानदीतीरे ।
कुर्कुट
पूर्वभवकथनम् ।
॥ ९१॥