________________
त्रिषष्टिशलाकापुरुषचरिते ॥१०॥
पञ्चमं पर्व चतुर्थः सर्गः श्रीशान्तिनाथजिनचरितम् ।
विनोदैर्विविधैरस्थाधावत्तावत् सुसेनया । व्यज्ञप्येवं गणिकया चरणायुधहस्तया ॥६७ ॥॥युग्मम् ॥ देवायं ताम्रचूडो मे चूडारत्नं स्वजातिषु । कस्यापि ताम्रचूडेन जीयते जातुचिन्नहि ॥६८ ॥ जीयते यदि कस्यापि कुकुटनैष कुर्कुटः । दीनाराणां तदा लक्षं पणे तस्य ददाम्यहम् ॥६९ ॥ अपरस्यापि कस्यापि यद्यस्ति चरणायुधः । मत्प्रतिज्ञापणममुं स उत्क्षिपतु तत्प्रभो ॥७० ॥ देवी मनोरमाथोचे पणितेनामुनैव मे । ताम्रचूडस्ताम्रचूडेनामुना युध्यतामिह ॥७१ ॥ एवमस्त्विति राज्ञोक्ते राज्ञी सद्यो मनोरमा । आनाययच्चेटिकया वज्रतुण्डाख्यकुर्कुटम् ॥७२ ॥ द्वावप्युत्तारितौ भूमावङ्कपत्ती इवाथ तौ । विचित्रपादगतिको प्रनृत्यन्तौ प्रजहतुः ॥७३ ॥ उत्पेततुः पेततुश्च सस्रतुश्चापसस्रतुः । ददतुः प्रतीषतुश्च तौ प्रहारान् परस्परम् ।। ७४ ।। प्रचण्डचञ्चुचरणप्रहारोद्भूतशोणितैः । ताम्रापि ताम्राभूच्चूडा ताम्रचूडाग्ग्रयोस्तयोः ।।७५ ॥ पक्षिरूपाविव नरौ सायुधौ चरणायुधौ । नखान् परस्परस्याङ्गे तीक्ष्णांश्चिक्षिपतुर्मुहुः ॥७६ ॥ जयत्ययं महादेव्याः सुसेनाया जयत्ययम् । इति क्षणं जयभ्रान्तिरभून्नो कस्यचिज्जयः ॥७७ ।। आयुध्यमानयोरित्थं तयोर्घनरथोऽवदत् । द्वयोरप्यनयोर्मध्यान्नकोऽप्येकेन जेष्यते ॥७८ ॥ ऊचे मेघरथोऽप्येवमनयोर्युध्यमानयोः । किमित्येकस्य न जयो नैकस्य च पराजयः ॥७९ ॥ ततो ज्ञानत्रयधरो राजा घनरथोऽब्रवीत् । श्रूयतामनयोः पूर्वभववृत्तमशेषतः ।। ८०॥ अस्मिन्नेव जम्बूद्वीपे क्षेत्र ऐरावताभिधे । अस्ति रत्नपुर नाम नानारत्नाकरं पुरम् ॥८१ ॥ १ कुर्कुटहस्तया । २ कुर्कुटः । ३ अङ्कश्चित्रयुद्धम् तस्मिन् पत्ती समौ । ४ श्रेष्ठकुर्कुट्योः ।
RSRAHASABRAHASHRSHASHRS
कुकुटयुद्धम् ।
॥९०॥